Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

Previous | Next

Page 263
________________ शान्तमूर्तिश्रीधर्मविजयविरचितं २५३ दयां दयाधीश विधाय सत्वरं भवोदधेस्तारय मां हि सागसम् । महाऽपराधेषु नतौ सुवत्सलाः भवन्ति तत्त्वेषु सुतत्त्वदृष्टयः ॥ ४॥ भगोस्तव ध्यानपरम्परा वरा कृताऽमराद्यैः शुभभावभावितैः । उपासना पापविनाशकारिणी प्रसिद्धसिद्धान्तजलौकसारिणी ॥ ५ ॥ अनाथके नाथ तथा प्रसाद्यतां प्रयान्ति कामाद्यरयो दरिद्रताम् । मयूरयुक्ते गहने वनेऽप्यहो न नागकानां भ्रमण विभाव्यते ॥६॥ अहो अहो मोहविचेष्टितं महन् ममास्ति गाढं भगवन् हि दुर्मदम् । विदह्यते सर्वसुकर्मसञ्चितं स्वसेवकं रक्ष सुपार्श्वपार्श्वक ॥ ७ ॥ .

Loading...

Page Navigation
1 ... 261 262 263 264 265 266