Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
शान्तमूर्तिश्रीधर्मविजयविरचितं २५५ भवाटवीं बम्भ्रमता मया नुतं __भवाब्धिपोतं सुविशाललोचनम् । सदा प्रसन्नं सुखशान्तिकारकं
नमामि शङ्केश्वरधामसंस्थितम् ॥ ३ ॥ अगाधसिद्धान्तपयोधिशेवधि
अनाथनाथं सततं सुबोधिदम् । कृतापराधेषु जनेषु शान्तिदं
नमामि शङ्केश्वरधामसंस्थितम् ॥ ४ ॥ कषायवर्गे निकषायचित्तकं
सुसाधुसङ्घ विकथादिवारकम् । अज्ञानमूढे सुकृतादिदेशकं
नमामि शकेश्वरधामसंस्थितम् ॥ ५ ॥ कषायदावानलदाहनीरदं
कुमङ्गसङ्गादिविषाहिमन्त्रदम् । अनादिसंसारविकारजायुदं
नमामि शङ्गेश्वरधामसंस्थितम् ॥ ६ ॥

Page Navigation
1 ... 263 264 265 266