Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
२४६ श्रीगुणविजयगणिविरचितः। सुकृतसरोवरतटसारङ्गं
दुष्कृततरुभञ्जनसारङ्गम् ॥ ४॥ कुनयरजोहरणे सारङ्गं
कितवकरटिदारणसारङ्गम् । निश्चलतानिर्जितसारङ्गं
कुगतिदहनतर्जनसारङ्गम् ॥५॥ सुखरतातर्जितसारङ्गं
चारुनिरञ्जनतासारङ्गम् । सुन्दररूपविजितसारङ्गं
सर्वसहनगुणतासारङ्गम् ॥६॥ श्वासपराजितवरसारङ्गं
दुर्मदविधिवदने सारङ्गम् । दुरितमलापनयनसारङ्गं
मन्मथभस्मकरणसारङ्गम् ॥ ७ ॥ कुमतिलतालवने सारङ्गं
करपङ्कजसमतासारङ्गम् ।

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266