Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
________________
२४८
श्रीगुणविजयगणिविरचितः ।
शशिसोदरसुन्दरसारङ्गं
सौवरमादर्शितसारङ्गम् ॥ १२ ॥ कीलितकोपविषमसारङ्गं
वाणीशीतलतासारङ्गम् । पावितनिजनिरुपमसारङ्गं
मृगमदजैत्रवदनसारङ्गम् ॥ १३ ॥ निजवशनिर्मितमतिसारङ्गं __ सुरपतिभिर्विनुतं सारङ्गम् । विदलितमोहविपुलसारङ्गं
देवीकृतवापीसारङ्गम् ॥ १४ ॥ गगनचलितगुरुवृषसारङ्गं
ज्ञातकुले निर्जरसारङ्गम् । रोषभुजङ्गदमनसारङ्गं
ज्ञानमहाभूरुहसारङ्गम् ॥ १५ ॥ स्वीयवशीकृतमनसारङ्गं
लेश्यागुणगालितसारङ्गम् ।
Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266