SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २३० श्री मुनिसुन्दरसूरिविरचितः । ज्ञानमानधनदानवृद्धयः कान्तिकीर्त्तिधृतिबुद्धिसिद्धयः । सम्भवन्ति भविनामिह स्तवात् सर्ववस्तुषु तवैव वास्तवात् ॥ २४ ॥ ततः स्तुतिं श्रीजगदीश पार्श्व व्यधामिमां मुग्धधियाऽपि तेऽन् । समीहितं देह्यनयाऽपि मे द्राग् कृपा कृपालो विदितेति हि स्यात् ॥ २५ ॥ एवं पार्श्वजिनस्य ये विदधते प्रह्लादनाऽऽहे पुरे श्रीप्रह्लादविहारभूषणमणेः सद्भक्तियुक्ताः स्तुतिम् । प्राप्यैते मुनिसुन्दरस्तवमयीं ज्ञानादिऋद्धिं परां द्वैधद्वेषिजयश्रिया शिवपुरे राज्यश्रियं प्राप्नुयुः॥२६॥ इति युगप्रधानावतारगृहत्तपागच्छाधिराज श्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरि श्री सोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यते श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे महादनपुरमण्डनप्रह्लादनविहारश्रीपार्श्वजिनस्तवनं द्वाविंशस् ।
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy