Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 248
________________ ॥ अहम् ॥ श्रीगुणविजयगणिविरचित चतुर्विशतिजिनभवस्तवः। नत्वाऽऽदौ विधिवद्गुरोः क्रमकजद्वन्द्वं गरीयः श्रियोगेहस्य प्रकटप्रभावकलितस्याधारमूर्तेर्मुदा। श्रीमन्नाभिनरेन्द्रनन्दनमुखस्याहादिनामादरादिग्मातङ्गजगन्निशाकरमितान् वक्ष्ये भवान् भक्तितः॥१॥ पूर्व यो धनसार्थराट् युगलिकः सौधर्मवृन्दारको विद्याभृच्च महाबलो नरपतिः कल्पे द्वितीये मरुत् । भूपालो युगलीसुरः प्रथमके कल्पे भिषक् द्वादशे देवश्चक्रधरः समग्रविबुधोत्तंसो वृषाङ्कः श्रिये ॥२॥ जम्बूद्वीपविदेहवच्छविजयाभूभामिनीभूषणं भूपश्रीविमलादिवाहन इति प्रौढप्रतिष्ठाऽऽस्पदम् । गीर्वाणो विजयाभिधानविपुलस्फूर्जद्विमानेऽभवत् भूयारिविभूतये ऽजितजिनः सोऽयं सतामन्वहम् ॥३॥

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266