Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

Previous | Next

Page 253
________________ चतुर्विशतिजिनभवस्तवः। २४३ षण्मात्रेर्मुदितो महाबल इति क्षोणीरमामाधवः क्षोणीशस्त्रिदशाधिराजसदृशः श्रीयुक् जयन्ते सुरः । कौघद्रुमहस्तिमल्लकरणिः श्रीमल्लिारिष्टाप्तये सेव्यः सज्जनचारुचित्तजलधौ स्पष्टं मृगाङ्कोपमः॥२०॥ भूपालः शिवकेतुकः सुरवरः कल्पेऽथ सौधर्मके च्युत्वाऽभूञ्च कुबेरदत्त उदितस्तुर्ये सुपर्वाऽग्रणीः । पश्चाद्भूपतिवज्रकुण्डल इति श्रीब्रह्मकल्पे मरुत् वर्माह्वक्षितिपः सुधाऽशनवरः श्रीसुव्रतः पातु वः ॥२१॥ कौशाम्बीललनाऽऽस्यमण्डनमलं कारुण्यपाथोनिधिः सिद्धार्थक्षितिभुक् सुपर्वमुकुटः श्रीप्राणते प्रीतिभाक् । वप्राकुक्षिसरोमरालविलसल्लीलायितं योऽधरद्भूत्यै वो भगवाननगरहितः श्रीतीर्थनाथो नमिः ॥२२॥ जम्बूद्वीपगते पुरेऽचलपुरे श्रीमद्धनक्षोणिराट् सौधर्मे त्रिदशोऽथ चित्रगतिकः खेटश्चतुर्थे मरुत् । भूनेतारणनिर्जरो नरवरः शङ्खश्च लेखस्ततः प्रालेयाचलचन्द्रनिर्मलयशा नेमिर्मनोमोदकृत् ॥२३॥

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266