Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
________________
चतुर्विशतिजिनभवस्तवः ।
विश्वेशो विपुलाङ्कलो बलवतामाद्योऽनवद्यो मुवि प्रख्यातः प्रथितोदयः सुरवरो ग्रैवेयके सप्तमे । श्रीसेनाङ्गभवो भवोद्भवमहाकष्टेकविध्वंसको जीयाज्जन्मजरादिदुःखरहितो भावघशा जन्मिनाम् ॥४॥ रत्नं रत्नपुरेश उज्वलतरश्रेयःश्रियामाश्रयो विश्वव्यापिमहामहाबलनृपो वर्यावदातो महान् । लब्धाऽनेकजयो जयन्तविबुधः श्रीसंवरक्ष्मापतेः सूनुःश्रीअभिनन्दनो मतिमतामानन्दतात्मानसम्॥५॥ उर्वीशोऽतिबलो विदेहवसुधासारङ्गसीमन्तिनीसारङ्गः सकलार्थसिद्धिकलितो लीलाविलासालयः । आराध्य व्रतमद्भुतं च दिविषज्जातो जयन्ते श्रियं चेषीष्टाङ्गिततिप्रदत्तसुमतिः श्रीमङ्गलानन्दनः॥६॥ यो नारेश्वरमेखलाप्रियतमो गाम्भीर्यनीरेश्वरस्तेजस्विन्नपराजितेत्यभिधया धीधाम धामोल्वणः । शान्ताह्वानरसं विभाव्य नवमे ग्रैवेयके निर्जरः सञ्जातो जयताज्जयाईनिवहः श्रीसुप्रभः केवली ॥७॥
Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266