Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
________________
श्री जिनस्तोत्ररत्नकोशः ।
देवान्तरापास्तनया गुणानां ज्ञानादिकानां शरणं यथाऽर्हन् ।
समग्ररोगादिविपत्प्लुतानां
त्राता तथैवासि विभुस्त्वमेव ॥ १७ ॥
त्वयि प्रभो देउलापुरेशे
यथाऽर्चिते द्राक् विपदः क्षयन्ति ।
नानाभवोपाज्जितसम्भवानि
तथैव कर्माण्यपि नाभिसूनो ॥ १८ ॥
संवर्मितानां भवदाज्ञया यथा
जगद्विषो न प्रभवन्त्युपद्रवाः ।
तथा कषायादिभटोत्कटैौजसः
शरीरिणां पापमहारयोऽपि च ॥ १९ ॥
किं कामकुम्भैर्मणिभिः सुराणां मरुद्गवीभिः सुमनोद्रुमैर्वा ।
हृदि स्थिति देउलावतंसः
सतां यदि श्रीऋषभो विधत्ते ॥ २० ॥
२३५
Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266