Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

Previous | Next

Page 243
________________ श्रीजिनस्तोत्ररनकोशः। रणे जयं सम्पदमाशु दुस्था, वडा द्रुतं बन्धनमोक्षमीश। नृपावरुद्धाश्च नृपावदानं भक्ता लभन्ते ऋषभप्रभो ते ॥ ९॥ द्विधाऽऽमयैर्नाथ कदर्थितस्य मे . द्विधा च दोषैः सकलार्तिलोलवः । त्वमेव नेता जगतां पिता हिता वहः शरण्यः शरणं भवाधुना ॥१०॥ नवप्रभावेषु सुरान्तरेष्वहो लमेव गर्जस्यतिशीतिभिः कलौ। ग्रीष्मे हि शुष्यन्ति जलाशयाः परे प्रवर्द्धते वारिनिधिस्तु वारिभिः ॥ ११ ॥ जगत्रयीरक्षणदक्षिणे प्रभौ वयि प्रपन्ने शरणं शरीरिणाम् । यथेह नश्यन्ति भियो द्विषां विधा परत्र सांसारिकदुःखजास्तथा ॥ १२ ॥

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266