Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 137 : स्थिरचित्तचिन्तनम् , धर्मादनपेतं धर्म्यम् 'हृद्यपद्य-' 71 / 13 // इति निपात्यते, हृदि-अन्तःकरणे, निदधतम्-धारयन्तम् , सिद्धिशय्योपधानम्-शिवसुखशयनशिरोधानम् / उपमारूपकान्त्यानुप्रासालकाराः॥ 109 // _ (110) आकर्षन्तं कठिनतपसा लीलया सिद्धिराज्यं, स्वर्गादीनां सुखमनुपमं मन्यमानं तृणाय / आचामाम्ला-द्यतिपृथुतपः-कार्यतः श्वेतकान्ति, सम्यगलिप्तं किल धवलया लेश्ययाऽन्तर्बहिश्च / / 110 // ( अन्वयः ) कठिनतपसा लीलया सिद्धिराज्यम् आकर्षन्तं स्वर्गादीनाम् अनुपमं सुखं तृणाय मन्यमानम् आचामाम्लाद्यतिपृथुतपःकार्यतः श्वेतकान्ति किल धवलया लेश्यया अन्तबहिश्च सम्यग्लिप्तम् // 110 // ___(प्रकाशः ) कठिनतपसा-प्रचण्डतपश्चरणाचरणेन, लीलया-क्रीडामात्रेण, सिद्धिराज्यम्-निःश्रेयससाम्राज्यम् , आकर्षन्तम्-स्वसमीपमानयन्तम् , आकर्षणं विदधतम् , स्वर्गादीनाम्अमरनिकेतनप्रमुखाणाम् , अनुपमम्-असमानम् , सुखम्-शर्म, तृणाय मन्यमानम्-तुच्छमवगणयन्तम् , ' मन्यस्यानावादिभ्योऽति कुत्सने ' / 2 / 2 / 64 / इति निन्दागम्ये चतुर्थी आचामाम्लाद्यतिपृथुतपाकार्यतः-सकृदूक्षान्नमात्रभोजनं यत्र तत्तप आचामाम्लाख्यं तत्प्रमुखप्रचुरविस्तारतपश्चरणजनितवपुष्कृशतायाः, आचामः-प्रसावः स एवाम्लो यस्मिंस्तत् आचामाम्लम् , (आयंबिले
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b1999bc01d88efa938d40f72bd2cef244c27f4766760b4d5cf96eb180158a2fb.jpg)
Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222