Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 206
________________ : 147 : धेर्नन्दन ! त्वं वन्देथाः पुण्यप्रभवं लभेथाः तावकीनैः अतुलैः प्राच्यैः पुण्यैः फलितं ते एतत् जन्म सुलब्धं च ते नभसि गतिः कृतार्था भाविनी // 121 // (प्रकाशः) ऐदंयुगीनम्-एतत्कालीनम् , वर्तमानसमयसत्कम्, सार्वम्-सर्वज्ञम् , समेषां हितकरमिति यावत् , सर्वेभ्यो हितः सार्वः, 'सर्वाण्णो वा' / 7 / 1 / 43 / इति णः, पीनम्-पुष्टम् , श्रीतपगणपतिम्-श्रीमत्तपागच्छाधिपतिम् , भट्टारकाचार्य-महाराजश्रीविजयप्रभसूरीश्वरमहाराजमितियावत्, उदधेर्नन्दन !जलधिजात ! सुधाकर ! त्वम्-श्रीमान्, वन्देथा:-नमस्कुर्याः, पुण्यप्रभवम्-सुकृतपराक्रमम् , लभेथाः-प्राप्नुयाः, तावकीनैःश्रीमदीयैः, अतुलैः--अप्रतिमः, प्राच्यैः--पूर्वोपार्जितैः, पुण्यैः-शुभादृष्टैः, फलितम्-उदयावलिकायामागतम् , ते--तव, एतत्--अदः, प्रत्यक्षम् , जन्म--जनिः, उत्पत्तिः, सुलब्धम्--साधुप्राप्तम् , च-- पुनः, ते-श्रीमतः, नभसि गतिः--गगनगमनम् , कृतार्था भाविनीसफला भविष्यति // 121 // . (122) श्रीमतां गुरुवरचरणानां दर्शनतो दुष्टदुरितदूरीभवनमाहअद्येतिअद्यानथै-गलितमकलैः पापश(प)कैविलीनं, क्षीणं दोषै-गलितमशिव-र्दुष्टकष्टैः प्रणष्टम् // रुग्णं रोगै-मृतमनुशयै-विप्रयोगैर्विनष्टं, सर्वातङ्को-पशमनिपुणं द्रक्ष्यसि श्रीगुरुं यत् // 122 / /

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222