Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 149 : . (123) पूज्यपाददर्शनतो नष्टकलङ्कवार्तस्त्वं निष्कलको भविष्यतीत्याह पुण्यादिति पुण्यादस्माद् भृशमुपचितात् किंवदन्ती कलङ्कस्यैषा यास्य-त्यमृतकर! भो निष्कलङ्क भवन्तम् / / मन्येऽवश्यं शतगुणणि सत्वरं वीक्षिताहे, सर्वाभीष्टं फलति न चिरा-दर्शनं हीदृशानाम् // 123 // ( अन्वयः ) भृशम् उपचितात् अस्मात् पुण्यात् भो अमृतकर! एषा कलङ्कस्य किंवदन्ती यास्यति, अवश्यं मन्ये शत. गुणघृणिं निष्कलङ्कं भवन्तं सत्वरं वीक्षिताहे हि ईदृशानां दर्शनं सर्वाभीष्टं न चिरात् फलति // 123 // (प्रकाशः) भृशमुपचितात्-अत्यन्तं परिपुष्टात् , असात् पुण्यात्-श्रीमत्तपागणाधीशदर्शनवन्दनजनितसुकृतात्, भो अमृतकर !-अयि पीयूषपादन, एषा-विश्वविश्रुता, कलङ्कस्य-कुरङ्गरूपश्यामचिह्नस्य, किंवदन्ती-जनश्रुतिः, यास्यति-गमिष्यति, दूरीभविष्यतीति यावत् , अवश्यं मन्ये-ध्रुवं संभावयामि, शतगुणघृणिम्-इदानीन्तनतः शतसङ्ख्यरश्मिम् , ' केतुघृणिरश्मिपृश्नयः इतिहैमः, निष्कलङ्कम्-कलङ्कविरहितम् , भवन्तम्-श्रीमन्तम् , सत्वरम्-तत्कालम् , वीक्षिताहे-विलोकयानि, हि-यतः, ईदृशानाम्-एतादृशामसमसुकृतशालिनाम् , दर्शनम्-विलक्षणमीक्षणम् , न चिरात्-अचिरेण, झटितीतियावत्, सर्वाभीष्टम्-समस्तसमीप्सितम् , फलति-प्रसवति जनयतीतियावत् // 123 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cc1e0dbc8f4bddc0d3f32893c742f93a48f26a3ba284cc0262696c14be4ea067.jpg)
Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222