Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 210
________________ : 151 : भवता--श्रीमता, आनम्य-श्रीमद्गुरुवरचरणौ प्रणम्य, स्थेयम्स्थातव्यम् // 124 // (125) सजातीयाः श्रीमतः पाठकास्तत्र सन्तीति न मे विज्ञप्तिस्ते दुर्विज्ञप्या भविष्यतीत्याह विज्ञप्तिरितिविज्ञप्ति! यदपि भवतो दुष्करा नातपुसां, पार्श्वे किश्चा-मरहिमकराः पाठकास्ते सगोत्राः // संवीक्ष्यैवा--वसरमुचितं तत्र वाच्यं तथापि, नेतारो हि ध्रुवमवसरे प्रेक्षिणि प्रीतचित्ताः॥१२५॥ ( अन्वयः ) यदपि विज्ञप्तिः भवतः दुष्करा नो ( यतः ) आप्तपुसां पार्श्वे चामरहिमकराः ते सगोत्राः पाठकाः किं न तथापि तत्र उचितम् अवसरं संवीक्ष्यैव वाच्यं हि नेतारः अवसरे प्रेक्षिणि ध्रुवं प्रीतचित्ताः // 125 // (प्रकाशः) यदपि यद्यपि, विज्ञप्ति:-ममाभ्यर्थना,भवतःश्रीमतः, दुष्करा-दुःसाध्या, नो-नैव, यतः, आप्तपुसा पार्श्वेसत्त्वसत्यशीलशालिनां महतामाचार्यचरणानां सविधे, चामरहिमकराः-चञ्चचामरवच्छीतलहस्ताः, ते सगोत्रा:-तव समानकुलाः, चान्द्रकुला इतियावत्, पाठका:-वाचकाः, उपाध्याया इतियावत् , किं न-न सन्ति किमु, अर्थात् सन्त्येव, तथापि-तदपि, तत्र-श्रीमत्सूरीश्वरान्तिके, उचितम्-योग्यम् , अवसरम्--समयम्, संवीक्ष्यैव--ननु निरीक्ष्य, वाच्यम्--कथनीयं कथनीयम् , हि

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222