Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 155 : (129) गुरुदर्शनदायिनी निद्रा शुभाऽशुभा च विरहे दर्शनविरहापादिकाजागयेति वर्णयति निद्रेतिनिद्रा दोषो जगति विदितो जागरश्चाप्रमादः, सम्प्रत्येत-न्मम तु हृदये वैपरीत्येन भाति / निद्रां जाने गुणमनुगुणं दर्शनं वो ददानां, जागाश्च प्रगुणमगुणं तत्र विघ्नं सृजन्तीम् // 129 / / (अन्वयः) जगति निद्रा दोषः' जागरश्च अप्रमादः विदितः सम्प्रति मम तु हृदये एतत् वैपरीत्येन भाति वः अनुगुणं दर्शनं ददानां निद्रां गुणं तत्र प्रगुणं विघ्नं सृजन्ती जागो च अगुणं जाने // 129 // (प्रकाशः ) जगति-विश्वे, निंद्रा-प्रमीला, दोष:-अवगुणः, जागरश्व-जाग्रदशा तु, अप्रमादः-सावधानतारूपसद्गुणः, विदितः-प्रसिद्धः, तथापि, सम्प्रति-अधुना, मम तु हृदये-मदीयान्तःकरणे तु, एतत्-इदम् , वैपरीत्येन-विपरीतप्रकारेण, भाति-भासते, तद्यथा वा-युष्माकम् , अनुगुणं दर्शनम्-अनुकूलं खप्नम् ' दर्शनं....स्वप्नलोचनयोः' इत्यनेकार्थसङ्ग्रहः, ददानाम्-प्रयच्छन्तीम् , निद्राम्-नन्दीमुखीम् , 'निद्रा प्रमीला शयनं, संवेशस्वापसंलयाः / नन्दीमुखी' इति हैमः, गुणम्-सद्गुणम् , तत्र-पूज्यपादानां दर्शने, प्रगुणं विनम्-प्रबलप्रत्यूहम् , प्रगाढ. मन्तरायम् , सृजन्तीम्-उत्पादयन्तीम् , जागाम्-प्रबोधदशाम् , च-तु, अगुणम्-दोषम् , जाने-मन्ये // 129 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7311f103805b92473e9850ffb40b53b3c8c2cf3ba4ebd6d9d8c25fcce2346371.jpg)
Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222