Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 216
________________ : 157 : (131) विधिवशात्पक्षान्तरमाश्रितोऽप्यहमधुना मलीमसं तं त्यक्त्वा श्रीमन्तमनुसरामीति कृपयाऽनुग्राह्योऽयं जन इति प्रार्थयते प्रान्ते शङ्केति शङ्कातकै-मलिनमगुणै-रुत्सृजन् पूर्वपक्ष, सिद्धान्तं स-द्विभव ! भवदा-राधनं संश्रितोऽस्मि / सम्भाव्यस्तत् परमगुरुभिः स्निग्धया प्रेमदृष्टया, येनात्यर्थं फलितसकल-प्रार्थितार्थो भवेयम् // 131 // __(अन्वयः) शङ्कातङ्कः अगुणैः मलिनं पूर्वपक्षम् उत्सृजन् सद्विभव ! सिद्धान्तं भवदाराधनं संश्रितोऽस्मि तत् स्निग्धया प्रेमदृष्टया परमगुरुभिः सम्भाव्यः येन अत्यर्थ फलितसकलप्रार्थितार्थः भवेयम् // 131 // __(प्रकाशः ) शङ्कातकै:-सन्देहसन्दोहसन्तापैः, अगुणैःदूषणैः, मलिनम्-कलुषितम् , पूर्वपक्षम्-श्रितमपरपक्षम् , उत्सुजन्-त्यजन् , सद्विभव !-समीचीनैश्वर्यशालिन्!, सिद्धान्तम्निश्चितम् , भवदाराधनम्-श्रीमत्-सेवनम् , संश्रितोऽस्मि-समाश्रितोऽस्मि, तत्-ततः, स्निग्धया-प्रणयपरिपूरितया, प्रेमदृष्टयास्नेहलसमीक्षया, परमगुरुभिः-श्रेष्ठगुरुवरचरणैः, सम्भाव्य:संभावनीयः, निरीक्षणीय इति यावत् , येन-यतो हि, अत्यर्थम्अतिशयेन, फलितसकलप्रार्थितार्थ:-सिद्धसमस्तसमीप्सितप्रयोजनः, भवेयम्-स्याम् // 131 //

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222