Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 215
________________ : 156 : (130) शश्वन्नामरटनासक्तरसनान्तःकरणत्वेनाहं निद्राम्युतजार्गमीतिनावगच्छन्ति जना इत्याह जागर्यायामिति जागर्यायां जपति रसना युष्मदाख्यां यथा मे, निद्रायाम-प्युपहितमनस्त्वेन शश्वत्तथैव / तस्मात् सम्प्र-त्यहनि निशि वा जागरानिद्रयोर्मे, भेदं लोका अपि पटुधियो जानते नापरीक्ष्यम् // 130 // . (अन्वयः) यथा जागर्यायां मे रसना युष्मदाख्यां जपति तथैव उपहितमनस्त्वेन शश्वत निद्रायामपि, तस्मात सम्प्रति अहनि निशि वा मे जागरानिद्रयोः अपरीक्ष्यं भेदं पटुधियः अपि लोकाः न जानते // 130 // . ( प्रकाशः ) यथा-येन प्रकारेण, यद्वदिति यावत् , जागया॑याम्-अवबोधदशायाम् , मे-मामकीनी, रसना-रसज्ञा, जि. हेतियावत् , युष्मदाख्याम्-भवन्नामधेयम् , जपति-रटति, पुनः पुनः पठति, तथैव-तद्वदेव, उपहितमनस्त्वेन-समाहितस्वान्ततया, शश्वत्-अनिशम् , निद्रायामपि-स्वापसमयेऽपि, तस्मात्अनवरताभिधानरटनकारणात् , सम्प्रति-एतत्समये, अहनि निशि वा-दिवानक्तं वा, मे-मम, जागरानिद्रयोः-प्रबोधप्रमीलयोः, अहं जागर्मि उत निद्रामीतिरूपमीतियावत् , अपरीक्ष्यम्-परीक्षाया अनर्हम् , भेदम्-विभागम् , पटुधियः अपि-सदसद्विवेककरणकुशलशेमुषीशालिनोऽपि, चतुरा अपि, -लोका:-जनाः, न जानते-नावगच्छन्ति // 130 //

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222