Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 205
________________ : 146 : श्रद्धालूनां पृथुपरिषदि प्रौढधाम्ना निषण्णं, त्रायस्त्रिंशै-रिव परिगतं संपदीन्द्रं सुराणाम् // 120 // ( अन्वयः ) विद्यावद्भिः सुभगतनुभिः चारुचारित्रवर्यैः श्रीगुर्वाज्ञाविनयनिपुणैः साधुवय्यः सेवितं श्रद्धालुनां पृथुपरिषदि प्रौढधाम्ना निषण्णं सुराणां सम्पदि त्रायस्त्रिंशैः परिगतम् इन्द्रम् इव // 120 // (प्रकाशः ) विद्यावद्भिः-विपश्चिद्भिः, विविधशास्त्रावबोधशालिभिरिति यावत् , सुभगतनुभिः-शीलसुगन्धसुगन्धिशरीरैः, चारुचारित्रवयः-विशुद्धचरणकरणाचरणश्रेष्ठैः, श्रीगुर्वाज्ञाविनयनिपुणैः-पूज्यपादाचार्यवर्यनिदेशकरणविनम्रतत्परैः, साधुवय्यैः-मुनिराजैः, सेवितम्-उपासितम्, श्रद्धालूनाम्-श्रावकानाम् , श्रद्धानशीलः श्रद्धालुः 'शीश्रद्धा-' / 5 / 2 / 37) इत्यालुः, 'श्रद्धालुरास्तिकः श्राद्धः' इति हैमः, पृथुपरिषदि-महासभायाम् , प्रौढधाम्ना-प्रकृष्टतेजसा, निषण्णम्-समासितम् , बायस्त्रिशैः-सभास्थानीयैरमरैः, परिगतम्-परिवेष्टितम् , सहितमितियावत् , इन्द्रमिव-सुरपतिवत् // 120 // (121) वन्देथाः श्री-तपगणपति सार्वमैदंयुगीनं, पीनं पुण्यप्रभवमुदधे-नन्दन ! त्वं लभेथाः // प्राच्यैः पुण्यैः फलितमतुलै-स्तावकीनैः सुलब्धं, जन्मैतत्ते नभसि च गति- विनी ते कृतार्था // 121 // ( अन्वयः) ऐदंयुगीनं सार्व पीनं श्रीतपगणपतिम्, उद.

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222