Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 203
________________ :144: (198) धैर्येणाति-प्रथितयशसा स्वर्णशैलं जयन्तं, गाम्भीर्येणा-तिशयगुरुणाऽम्भोनिधि लजयन्तम् // सौन्दर्येणा-प्रतिममहसा मन्मथं तर्जयन्तं, चारित्राद्यैः सुविदितगुणैर्विश्वमावर्जयन्तम् // 118 // ( अन्वयः ) अतिप्रथितयशसा धैर्येण स्वर्णशैलं जयन्तम् अतिशयगुरुणा गाम्भीर्येण अम्भोनिधिं लजयन्तम् , अप्रतिममहसा सौन्दर्येण मन्मथं तर्जयन्तं चारित्राद्यैः सुविहितगुणैः विश्वम् आवर्जयन्तम् // 118 // (प्रकाशः) अतिप्रथितयशसा-अत्यन्तविख्यातवर्णवादेन, धैर्येण-धीरतया, स्वर्णशैलम्-मेरुपर्वतम् ,जयन्तम्-विजयमानम् अतिशयगुरुणा-महत्तरेण, गाम्भीर्येण-गभीरतया, अलक्ष्यमनोभावेनेतियावत् -- स्वरे सत्त्वे च नाभौ च, त्रिषु गम्भीरता शुभा' इतिगभीरत्रिकवत्त्वेन, अम्भोनिधिम्-रत्नाकरम् , लज्जयन्तम्सव्रीडं कुर्वन्तम् , अप्रतिममहसा-अतुलतेजसा, सौन्दर्येण-'अङ्गप्रत्यङ्गकानां यः, सन्निवेशो यथोचितम् / सुश्लिष्टः सन्धिबन्धः स्यात् , तत् सौन्दर्यमुदाहृतम्' // इत्युक्तप्रकाराजादीनां चारुतयां,मन्मथम्कन्दर्पम्, तर्जयन्तम्-तिरस्कुर्वाणम्, चारित्राद्यैः-शीलप्रमुखैः, सुविहितगुणैः-प्रशस्तसद्गुणैः, विश्वम्-भुवनजनम् , आवर्जयन्तम्-आकर्षयन्तम् , वशीकुर्वन्तम् , व्यतिरेकयपकौ // 118 / / (119) मौनध्याना-धमलविधिना-राधिताचार्य्यमन्त्रं, सेव्यं देव-रुपपदगतै-ब्रह्मचर्यानुरक्तैः // .

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222