Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh
View full book text
________________ : 145 : नम्रप्राणि-प्रकरविविध-प्रार्थनाकामकुम्भ, दान्तं शान्तं मृदुमपमदं निःस्पृहं वीतदम्भम् // 119 // (अन्वयः) मौनध्यानाद्यमलविधिना आराधिताचार्यमन्त्रं ब्रह्मचर्यानुरक्तैः उपपदगतैः देवैः सेव्यं नम्रप्राणिप्रकरविविध प्रार्थनाकामकुम्भं दान्तं शान्तं मृदुम् अपमदं निःस्पृहं वीतदम्भम् // 119 // ___(प्रकाशः) मौनध्यानाद्यमलविधिना-तूष्णींभावोत्कटकोटिकचिन्तनादिविमलविधानेन, सूरिमन्त्राराधने ह्यसौ विधिःयत् मौनेन स्थेयं न स्त्रीमुखं द्रष्टव्यम् आचामाम्लोपवासादितपो विधातव्यमित्यादि तेन, आराधिताचार्यमन्त्रम्-साधितपञ्चप्रस्थानमयसूरिमन्त्रम् , ब्रह्मचर्यानुरक्तैः-विशुद्धशीलासक्तैः, उपपदगतैः-श्रीमदाचार्यचरणान्तिके वर्तमानैः, देवैः-दिविषदः, से व्यम्-उपासनीयम् , नम्रप्राणिप्रकरविविधप्रार्थनाकामकुम्भम्प्रणमनशीलजीवजातानेकप्रकारकामनाकामघटम् , यथा कामकुम्भः पूरयति प्राणिनां प्रार्थनां तथासौ सूरिशेखरोऽपीतिभावः दान्तम्वशिवरम् , शान्तम्-प्रशमपरिपूर्णम् , मृदुम्-सुकोमलस्वभावम्, अपमदम्-गलितगर्वम् , निःस्पृहम्-निराकाङ्क्षम् , ब्राह्यार्थभिलाषरहितमितियावत्, वीतदम्भम्-छलशून्यम् , निष्कपटमितियावत् // 119 // .. . (120) विद्यावद्भिः सुभगतनुभि-श्चारुचारित्रवय्यः, श्रीगुर्वाज्ञा-विनयनिपुणैः सेवितं साधुवय्यः / .10
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/72a47351b295a90409de76518e5c14824618546d82669c3d2f00f0852488667d.jpg)
Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222