Book Title: Indudutam
Author(s): Dhurandharvijay
Publisher: Jain Sahityavardhak Sabh

View full book text
Previous | Next

Page 199
________________ (113) कर्णोपान्ते पलितकपटात् सुष्टु विज्ञाप्यमानं, स्थानभ्रंश-व्यथितजरसै-कान्तमेकान्तकान्तम् // स्वामिल्लोका-नजरममरं स्थानकं प्राप्तुमर्हान् , कुर्वन् भूमौ विहरसि मया स्थीयतां काधुनेति / / 113 / / ( अन्वयः) एकान्तकान्तं स्थानभ्रंशव्यथितजरसा कोपान्ते पलितकपटात् एकान्तं 'स्वामिन् ! लोकान् अजरम् अमरं स्थानकं प्राप्तुम् अनि कुर्वन् भूमौ विहरसि अधुना मया व स्थीयताम् ' इति सुष्टु विज्ञाप्यमानम् // 113 // (प्रकाशः) एकान्तकान्तम्-सर्वथा सुन्दरम् , स्थानभ्रंशव्यथितजरसा-स्वस्थितिविनाशजनितदुःखदुःखितया वृद्धावस्थया, ' जराया जरस्वा ' / 2 / 1 / 3 / इति जरसादेशः कर्णोपान्ते-श्रवणसमीपे, पलितकपटात्-श्वेतकेशव्याजेन, एकान्तम्-रहो यथास्यातथा, स्वामिन् ! भगवन् ! लोकान्-जनान् , अजरम्-जरारहितम् , अमरम्-मरणरहितम् , स्थानकम्-पदम् , प्राप्तुम्-अधिगन्तुम् , अन्-ियोग्यान् , कुर्वन्-विदधन्, भूमौ-क्षितितले, विहरसि-विचरसि, अधुना-सम्प्रति, मया-अस्माभिः, क-कमाश्रित्य, कुत्र, स्थीयताम्-स्थितिर्विधेया, इति-एवम् , सुष्ठु-सम्यक्, विज्ञाप्यमानम्-निवेद्यमानम् // उत्प्रेक्षा // 113 // (114) स्फूर्जद्भाग्यान् कतिचन दशा स्निग्धया लोकयन्तं, काश्चिच्चेष-स्मितकलनया स्वायतीन् प्रीणयन्तम् //

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222