Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीप: यद् रागद्वेषयोर्मध्ये, तिष्ठतीत्युच्यते बुधैः । मध्यस्थस्स द्विधा तु स्याद्, मिथश्च बृहदन्तरः ॥३॥ व्याख्या-यद्-यस्मात् कारणात् रागद्वेषयोर्मध्ये-अन्तस्तिष्ठतिविद्यते इति-अनेन कारणेन, बुधैः - विद्वद्भिर्मध्यस्थ उच्यतेभण्यते, तु-पुनस्स मध्यस्थो द्विधा-वक्ष्यमाणनीत्या द्विप्रकारः,स्याद्भवेत् । मध्यस्थस्य द्वौ भेदौ स्यातामित्यर्थः । स द्विप्रकारः कथम्भूतो ? मिथः - परस्परं, बृहदन्तरो - मोक्षसंसारवत् महान्तरः ॥३॥ मध्यस्थस्य प्रथमभेदमाह आद्यो न रागं न द्वेष, स्पृशेत् तत्त्वं विचिन्तयन् । उच्यतेऽतस्तयोर्मध्ये तवभावमये स्थितः ॥४॥ व्याख्या-आद्यः - प्रथममध्यस्थः, तत्त्वं-देवगुरुधर्मलक्षणं, विचिन्तयन्-विमृशन्, न रागं स्पृशेत् न द्वेषं स्पृशेत् । अतोअस्मात् कारणात्, तयो-रागद्वेषयोर्मध्ये-अन्तराले स्थित उच्यतेकथ्यते । कथम्भूते मध्ये ? तदभावमये-तयो रागद्वेषयोरभाव:असत्ता, तन्मयं-तद्रूपं यत्तस्मिन् रागद्वेषाऽसत्तारूपे इत्यर्थः । किमुक्तं भवति-वामदक्षिणयोः पार्श्वयोः स्थितौ रागद्वेषौ संत्यज्य अन्तराले स्थित एवासौ तत्त्वं विचिन्तयेदिति मध्यस्थो भण्यते ॥४॥ प्रथममध्यस्थस्यैव स्वरूपमाह अतत्त्वविषमुत्सृज्य, तत्त्वामृतमसौ श्रयेत् । विवेकी शुक्लपक्षश्च, राजहंस इवामलः ॥५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 170