________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीप:
यद् रागद्वेषयोर्मध्ये, तिष्ठतीत्युच्यते बुधैः ।
मध्यस्थस्स द्विधा तु स्याद्, मिथश्च बृहदन्तरः ॥३॥ व्याख्या-यद्-यस्मात् कारणात् रागद्वेषयोर्मध्ये-अन्तस्तिष्ठतिविद्यते इति-अनेन कारणेन, बुधैः - विद्वद्भिर्मध्यस्थ उच्यतेभण्यते, तु-पुनस्स मध्यस्थो द्विधा-वक्ष्यमाणनीत्या द्विप्रकारः,स्याद्भवेत् । मध्यस्थस्य द्वौ भेदौ स्यातामित्यर्थः । स द्विप्रकारः कथम्भूतो ? मिथः - परस्परं, बृहदन्तरो - मोक्षसंसारवत् महान्तरः ॥३॥ मध्यस्थस्य प्रथमभेदमाह
आद्यो न रागं न द्वेष, स्पृशेत् तत्त्वं विचिन्तयन् ।
उच्यतेऽतस्तयोर्मध्ये तवभावमये स्थितः ॥४॥ व्याख्या-आद्यः - प्रथममध्यस्थः, तत्त्वं-देवगुरुधर्मलक्षणं, विचिन्तयन्-विमृशन्, न रागं स्पृशेत् न द्वेषं स्पृशेत् । अतोअस्मात् कारणात्, तयो-रागद्वेषयोर्मध्ये-अन्तराले स्थित उच्यतेकथ्यते । कथम्भूते मध्ये ? तदभावमये-तयो रागद्वेषयोरभाव:असत्ता, तन्मयं-तद्रूपं यत्तस्मिन् रागद्वेषाऽसत्तारूपे इत्यर्थः । किमुक्तं भवति-वामदक्षिणयोः पार्श्वयोः स्थितौ रागद्वेषौ संत्यज्य अन्तराले स्थित एवासौ तत्त्वं विचिन्तयेदिति मध्यस्थो भण्यते ॥४॥ प्रथममध्यस्थस्यैव स्वरूपमाह
अतत्त्वविषमुत्सृज्य, तत्त्वामृतमसौ श्रयेत् । विवेकी शुक्लपक्षश्च, राजहंस इवामलः ॥५॥
For Private And Personal Use Only