________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ॐ नमो जिनाय ।
- आगमोद्धारक-आचार्य श्री आनन्दसागरसूरीश्वरेभ्यो नमः । चिरन्तनाचार्यविरचितः स्वोपज्ञविवरणमण्डितः
उत्सूत्रकन्दकुद्दालापरपर्यायः।
गुरुतत्यप्रदीपः। तीर्थनाथं नमस्कृत्य, स्तुत्वा च श्रुतदेवताम् ।
गुरुतत्त्वप्रदीपं तं, स्वोपज्ञं विवृणोम्यहम् ॥१॥ ग्रन्थप्रारम्भे विघ्नप्रशान्तये इष्टदेवतानमस्कारो विधीयते इति पारम्पर्याराधनाय इष्टदेवतानमस्कारपूर्व प्रस्थाभिधानं स्वप्रतिज्ञां च दर्शयन्नाह -
प्रणम्य श्रीमहावीर-मुत्सूत्रतिमिरच्छिदे ।
गुरुतत्त्वप्रदीपोऽयं, माध्यस्थ्यात् क्रियते मया ॥१॥ व्याख्या-स्पष्टः । नवरं-माध्यस्थ्यादिति ग्रस्थकृतः प्रतिज्ञायदेतद् गुरुतत्त्वप्रदीपामिधानं शास्त्रं, तद् रागद्वेषविरहितेन चेतसा मया विधीयमानमस्ति ।।१।।
अत्रोत्सूत्रप्रवृत्तस्सत्सूत्रानाभोगतः क्वचित् ।
पुनस्सूत्रे निमन्त्र्योऽहं, मातः ! शासनदेवते ! ॥२॥ व्याख्या - स्पष्ट: । नवरं - निमन्त्र्यः - आकारणीयः । भगवद्गम्भीरागमविषयविभागापरिज्ञानसमुत्थोत्सूत्रप्ररूपणभीरुतयेदं शासनदेवतासाहाय्यमभ्यर्थितम् ।।
___ अथ 'गुरुतत्त्वप्रदीपोऽयं माध्यस्थ्याम्मया क्रियते' इत्युक्तं, ततो मध्यस्थस्य भावो माध्यस्थ्यमिति व्युत्पत्तेमध्यस्थस्यव स्वरूपमाह
For Private And Personal Use Only