________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपः
Arunawwarkar
___ व्याख्या-पूर्वाद्धं स्पष्टुं । विवेचनं विवेकस्स विद्यते यस्यासौ विवेकी, तथा शुक्लपक्षः - सम्यग्दृष्टिरागमभाषया शुक्लपाक्षिको भण्यते । स राजहंस इव निर्मल: । सम्यग्दृष्टिपक्षे मलं-पापं, राजहंसोऽपि विषं-पानीयमुत्सृज्यामृतं दुग्धं श्रयेत्, सोऽपि विवेकी भवेत् शुक्लपक्षश्च-श्वेतपक्षः ॥५॥
मध्यस्थस्य द्वितीयभेदमाहद्वितीयो न त्यजेद् राग-द्वेषौ तत्त्वं विचिन्तयन् ।
उच्यतेऽतस्तयोर्मध्ये, तत्स्वरूपमये स्थितः ॥६॥ व्याख्या-स्पष्टः । नवरं-यत्रैव रागद्वेषौ तत्रैवास्याऽवस्थानमतस्तत्स्वरूपमये-रागद्वेषस्वरूपमये मध्ये स्थितोऽसौ भण्यते ।।६।।
अथ द्वितीयभेदस्वरूपमाहकुपक्षोऽयं विवेक्तुं न, क्षमः खिन्नो विलक्षधीः ।
मध्यस्थोऽहमिति क्लुप्त-विकल्पोऽतत्त्वमाश्रयेत् ॥७॥ व्याख्या-अयमसौ रागद्वेषमध्ये स्थितः कुपक्षः - पूर्णिमी. यकादिविवेक्तुं-तत्त्वाऽतत्त्वे पृथक्कर्तु, न क्षमो-न समर्थो भवेत् । अत एव खिन्न: - खेदमापन्नो, यत एव खिन्नस्तत एव विलक्षधीः, . विलक्षा-लक्षरहिता, धी बुद्धिर्यस्याःसौ विलक्षधीरतत्त्वं-पूर्णिमादेः चतुर्दश्यादेश्च सामाचारी आश्रयेत् । उभयाचारवान् भवेदित्यर्थः । कि विशिष्टो मध्यस्थो ? मध्यस्थोऽहमिति क्लुप्तविकल्पः । अहं मध्यस्थ इत्यमुना प्रकारेण वलप्तः - स्वचेतसि रचितो विकल्पस्सन्देहो येन सः। यतो लौकिको लोकोत्तरोवा मिथ्यादृष्टिविपरीतं विश्वस्वरूपं प्रवाहपतित एव श्रद्दधाति । प्रवाहाथयणं च सन्देह रूपमेव, यतोऽसौ निजमनसस्सन्देहे (हरूपमेव यतो) भाण्डगारिते एव लोकप्रवाहं तत्त्वबुद्धयाङगीकृत्य विश्वस्वरूपं विपर्ययाऽवबोधेन
For Private And Personal Use Only