________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीप:
स्वचेतसि निश्चिनोति । अतो लोकप्रवाहस्य गतानुगतिकत्वेनातत्त्वरूपतया तदपेक्षो निश्चयोऽप्यस्य सन्देह एव, ऊहने सनि स्वचेतसि खुडवकनात् । कोमलवचसा युक्तिपृच्छायां किमपि न ज्ञायते इत्यस्यवोत्तरस्य दानात् । ततो मध्यस्थो हमित्यसावप्यभिप्रायोऽस्य सन्देहरूप एव। सम्यग्दृष्टे: पुनरन्तर्गतयुक्तिदृष्टिनिरीक्षितं विश्वस्वरूपं करतलमुक्ताफलवच्चेतसि प्रतिभाति । सम्यग्दृष्टि रपि कदाचित् किञ्चिद् वचनमपरीच्छन् कञ्चिदर्थमाश्रित्य भाण्डागरितसन्देहस्सन यथा जिनागमान्यतरवचनानि सत्यानि तथैतदपि वचनं सत्यमिति जिनागमान्यतरपरीष्टवचनानुलग्नो यत इदं सङधेन मतं ततो मयापि मतमिति सङधमार्गानुलग्नो चेत्यनेनैवाऽल्पावबोधेन तद्वचनं स्वचेतसि निश्चिनोति, जिनागमवचनप्रवाहस्ततो मार्गप्रवाहस्तयोस्तत्त्वरूपत्वेन तदा तदनुलग्नत्वमेवार्थमार्ग इत्यस्य निश्चयानिश् वय एवार्वाक, पुनःस निश्चयो यथाऽवस्थिततत्त्वस्य सङक्षेपावबोधो भण्यते, कालान्तरेण तदर्थमार्गपरिज्ञानेन भाण्डागारितसन्देहस्य व्यपगमात् ॥७॥
ननु मध्यस्थोऽहमिति क्लप्तविकल्पत्वादसौ कुपाक्षिकः चतुर्दशी-स्त्रीपूजा-मुखवस्त्रिका-चतुःस्तुतिप्रभृतितत्त्वाचारं तथा पूर्णिमा-स्त्रीअपूजा - अञ्चलसार्द्धपूणिमात्रिस्तुतिप्रभृत्यतत्त्वाचारमप्यादत्ते । ततोऽतत्त्वमाश्रयेदिति कथमुक्तमित्याशङकापरिहारायाह
तत्त्वातत्त्वे श्रमत्यस्मिन्नतत्त्वमुदितं ततः । यत एषकुसन्दिग्ध-दृष्टया पश्यति ते समे ॥८॥ व्याख्या-अस्मिन् कुपाक्षिके तत्त्वाऽतत्त्वे श्रयति-लोकोत्तरभद्रकतया तत्त्वं-कियन्तमपि तत्त्वाचार, अतत्त्वं-कियन्तमप्यतत्त्वा
For Private And Personal Use Only