________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपः
चारं चाश्रयति । ततः - तस्मात् कारणादतत्त्वमुदित-प्राक् श्लोके उक्तम् । यतो-यस्मात् कारणादेष-कुषाक्षिकः ते-तत्त्वातत्त्वे कुसन्दिग्धदृष्ट्या,कुत्सिता सन्दिग्धा-सन्देहमापन्ना या दृष्टिरन्तरङगलोचनं तया । अवलेपवतस्सन्देहो हि दुर्व्यपगमत्वात् कुत्सितो भवति। अतः कुसन्दिग्धेत्युक्तं । समे-तुल्ये सदृशस्वरूपे पश्यति । किमुक्तं भवति-तत्त्वमतत्त्वसदृशमतत्त्वं तत्त्वसदृशं पश्यतस्तस्य यथावस्थितस्वरूपानिरीक्षणे उभयमप्यतत्त्वमेव परिज्ञेयम् ।।८।।
अस्यैव स्वरूपमाह
तत्त्वे तत्त्वाविदग्धोऽपि, कुपक्षादवतार्यते । सुधीभिर्न तु तत्त्वांश-दुर्विदग्धोऽवलेपवान् ॥९॥
व्याख्या-आस्तां तत्त्वज्ञः पुमान्, तत्त्वाविदग्धोऽपि-तत्त्वाऽज्ञोऽपि, तत्त्वे-चतुर्दश्यादौ, कुपक्षात्-पूर्णिमादे:, सुधीभिः -- तत्त्वविद्भिरवतार्यते-आरोप्यते, तु-पुनस्तत्त्वांशदुर्विदग्धो-दुष्टश्चासौ विदग्धश्च दुर्विदग्धस्तत्त्वांशे दुर्विदग्धस्तत्त्वांशदुर्विदग्धो, न तत्त्वेऽ वतार्यते । किविशिष्टो ? अवलेपवान्-अवलेपसंयुक्तः। उक्तंच'अज्ञस्सुखमाराध्यः, सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदुग्धं, बझापि नरं न रञ्जयति' ॥१॥ ॥९॥
अस्यैव स्परूपमाह- ...
यद्यप्यसौ सशूकः स्यात्, तत्त्वे त्वात्माऽवलेपतः ।
तत्त्वमत्सरिणां पडक्ती, बभूव स्वामिनः पुरः ॥१०॥ व्याख्या-असौ तत्त्वांशदुर्विदग्धो, यद्यपि तत्त्वे सशूकः - सशङको, न तु सर्वथावज्ञाकारी स्याद्-भवेत्, तु-पुनरात्मावलेपतोनिजावलेपात् स्वामिनः पुरः- श्रीवीतरागप्रभोरग्रे, तत्त्वमत्सरिणां पङक्तौ-श्रेण्या बभूक । किमुक्तं भवति-अयं स्वामिविदितस्तत्त्व
For Private And Personal Use Only