________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपः
मत्सरी सञ्जातः, उभयोरपि हि कुमार्गात्यजनलक्षणः स्वभावस्समान एव भवति । ततस्तत्त्वांशदुर्विदग्धोऽपि तत्त्वमत्सर्येव गण्यते ॥१०॥
असौ हेमाचार्येण स्वामिनोऽग्रे तत्त्वमत्सरी स्थापितोऽतस्तदुक्तमेव दर्शयन्नाहसुनिश्चितं मत्सरिणो जनस्य, न नाथ ! मुद्रामतिशेरते ते । माध्यस्थमास्थाय परीक्षका ये मणौ च काचेच समानुबन्धाः॥११॥
व्याख्या-स्पष्टम् । नवरं-नातिशेरते-नातिकामन्ति, किन्तु मत्सरिण एव ते परिज्ञेयाः ॥११॥
ततस्तत्त्वामृतं सेव्य-माद्यमाध्यस्थलक्षितम् । स्वर्गापवर्गसौख्यानि, जायन्ते यत्प्रभावतः ॥१२॥ स्पष्टः । तत्त्वामृतं त्रिधा देव-गुरुधर्मप्रभेदतः । एतच्चोत्सूत्रसंयोगा-दतत्त्वविषमुच्यते ॥१३॥
व्याख्या-देवगुरुधर्माः पूर्णिमाधुत्सूत्ररहितास्तत्त्वमत्र ज्ञातव्याः। चतुर्दश्यादितत्त्वप्ररूपणासहितो देवो देवतत्त्वं, गुरुर्गुरुतत्त्वं धर्मो धर्मतत्त्वमिति मन्तव्यः । 'एतच्चे'त्यादि । एतच्च देवगुरुधर्मरूपं तत्त्वमुत्सूत्र-संपर्कादतत्त्वं भवति । ननु गुरुधर्मावुत्सूत्रवन्तौ भवेतां, पुनर्देबो वीतरागः कथमुत्सूत्रवान् भवेत् ? । उच्यतेकुपाक्षिकाणां स्वस्वोत्सूत्रप्ररूपकं भगवन्तं चिन्तयतां जल्पतां च तेषामपेक्षया भगवानप्युत्सूत्रवानभूदिति ॥१३॥
अथोत्सूत्रं सामान्यतो दर्शयन्नाह - निश्चयो नय उत्सूत्रं, शैथिल्यमपि मन्यते । सूत्रार्थस्यान्यथाऽख्यानं, व्यवहारनयः पुनः ॥१४॥
For Private And Personal Use Only