________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपः
व्याख्या-निश्चयो नयः शैथिल्यमपि-श्लथत्वमपि उत्सूत्रं मन्यते । अत्र शास्त्रे अविरतसम्यग्दृष्टिश्रावकाणामविरतविभाग श्चोत्सूत्रतया निश्चयनयाभिप्रायेण सन्नपि न विवक्षितः । पार्श्वस्थादीनां तु श्लथत्वं नियमभङ्गरूपतयाऽत्यन्तदुर्गतिहेतुरिति भणित्वोत्सूत्रतया विवक्षितं परिज्ञेयं । शास्त्रस्यास्योत्सूत्रकन्दकुद्दाल इत्यपरनामत्वादन्तिमविश्रामे पार्श्वस्थादिश्लथत्वस्यैव निराकृतत्वात् । पुनर्व्यवहारनयः सूत्रार्थस्य-सिद्धान्तार्थस्य, अन्यथा-विपरीतमाख्यानंप्ररूपणं उत्सूत्रं मन्यते । इत्युभयरूपमप्युत्सूत्रं दर्शितं । उत्सूत्रं लोकोत्तरमिथ्यात्वं भण्यते ॥१४॥
लौकिकमिथ्यात्वादुत्तीर्णोऽपि जनोऽयं लोकोत्तरे मिथ्यात्वे पतितुकामः प्रथमं गुरुरूपे लोकोत्तरे मिथ्यात्वे पततीति दर्शयन्नाह
अविमूढोऽपि मिथ्यात्वे, लौकिकेऽसौ घनो जनः । लोकोत्तरे हि मिथ्यात्व-मोहे गुरुगते पतेत् ।।१५।।
व्याख्या-अत्र मिथ्यात्वं द्विविधं-लौकिकं लोकोत्तरं च । एकैको भेदस्त्रिधा देवगुरुधर्मभेदात् इति षड्विधमपि चतुर्की विवक्षितमन्यत्र, धर्मस्य देवगुरुप्रणीतत्वेन तयोरेवान्तर्भावः ।
यदाह-दुविहं लोइयमिच्छं, देवगयं गुरुगयं मुणेयव्वं । लोगुत्तरंपि दुविहं, देवगयं गुरुगयं चेव ।।१।।
चउभेयं मिच्छत्तं, तिविहं तिविहेण जो विवज्जेइ । अकलंकं सम्मत्तं,होइ फुडं निच्चलं तस्स ॥२॥ (दर्शनशुद्धि०)
असौ प्रत्यक्षोपलक्ष्यमाणोऽधुनातनो घनो-बहुतरस्तीर्थकरादिकालेऽल्पस्यैव लोकोत्तरे मिथ्यात्वे पतनात्ततोऽधुनातनस्य घनत्वमुक्तं जनो-लोको, लौकिके-लोकसम्बन्धिनि मिथ्यात्वेऽविमूढोऽपिलब्धलक्षोऽपि लोकोत्तरे हि-निश्चितं, मिथ्यात्वमोहे गुरुगते-गुरु सम्बन्धिनि पतेत् ॥१५॥
For Private And Personal Use Only