________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपः
गुरुतत्त्वविमूढोऽत्र, मुह्यत्यपरतत्त्वयोः ।।
असौ जनस्ततः स्पष्टं, गुरुतत्त्वं प्रदर्श्यते ॥१६॥ व्याख्या-असौ जनः, अत्र गुरुगते मिथ्यात्वमोहनीये कर्मणि पतितः सन् गुरुतत्त्वविमूढो भवंति-गुरुतत्त्वे विशेषेण मूढो गुरुतत्त्वविमूढो, एवंविधस्सन्नपरतत्त्वयो:-देवतत्त्वधर्मतत्त्वयोरपि मुह्यति । जिनो देवस्सुसाधुर्मुरुजिनप्रणीतो धर्म इदं मम तत्त्वत्र. यमिति जिह्वयाङ्गीकारेऽपि मनसः स्वप्रत्ययेन मननाभावात कुगुरुमुखोद्गतस्य तत्त्वत्रयस्याभिधामात्रसाम्येऽपि तत्त्वाभासतया अतात्त्विकत्वात् । ततः तस्मात् कारणात् स्पष्ट-प्रकटं, गुरुतत्त्वं प्रदर्श्यते ।।१६।।
त्याज्यः कुगुरुसंसर्गो, गुरुतत्त्वेक्षणोन्मुखैः ।
पावस्थादिर्बहिःस्थश्च, कुगुरुर्दशधा मतः ॥१७॥ व्याख्या-स्पष्ट: । नवरं-पावस्थादिः पञ्चधा, यदाहपासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो।
अहछंदो वि य एए, अवंदणिज्जा जिणमयंमि ॥१॥(प्रव.सा.) बहिःस्थोऽपि पञ्चधा, तं वक्ष्यतीत्युभयं दशधा ।
ननु पार्श्वस्थबहिःस्थयोरत्र किमन्तरं ?, पार्श्वस्थस्यापि वस्तुतो वस्त्वन्तराद्वहिर्भवनात् । उच्यते-जनेऽपि स्वकुटुम्बाढहिः पतितस्यापि कस्यचिदपाङक्तेयत्वास्पृश्यत्वाद्यदर्शनात् अपरस्य कस्यचिदपाङक्तेयत्वादिदर्शनाच्च । अत्र पार्श्वस्थः सङघाद्वेषात् सङघस्य पार्वे स्थातुं लभते । इदमागमोक्तं स्वकर्मनामाऽस्य ।
यदाह-सो पासत्थो दुविहो, सव्वे देसे अ होइ नायव्वो । सव्वंमि नाणदंसण-चरणाणं जो उ पासंमि ॥१॥(प्रव.सा.) स्पष्टं ।
For Private And Personal Use Only