________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो विश्रामः
नवरं-ज्ञानदर्शनचारित्राणि सङघः, तस्य पार्वे यः तिष्ठतीति गम्यते। पार्श्वस्थस्य क्वचिदुत्सूत्रप्ररूपकस्याप्यनवस्थितकोत्सूत्रत्वेन प्रवचनसार्मिकत्वेन विवक्षितत्वात् । बहिःस्थस्य पुनः सङघद्वेषादप्रेक्ष्यमुखत्वेन सङघस्य पार्वेऽवस्थानाभावः, प्रवचनसाधमिकत्वाभावादस्य ।
यदाह-दस ससिहागा सावय, पवयणसाहम्मिया न लिंगेण । लिंगेण य साहम्मिय,नो पवयेण निनवा सव्वे ।१।(पिण्डनि०)।१७।
श्रितोऽत्राद्यश्चतुर्भेदः, प्रायः शैथिल्यकारणम् ।
स्वच्छन्दबाह्यौ स्वाच्छन्ध-सङघबाह्यत्वकारणम् ॥१८॥ व्याख्या-अत्र पाश्वस्थादौ प्रथमे भेदपञ्चके आद्यश्चतुर्भेदः कुगुरुःपावस्थावसन्नकुशीलसंसक्तलक्षण:श्रितस्सन् प्रायो-बाहुल्येन, शैथिल्यकारणं-इलथत्वहेतुः । उत्सूत्रहेतु: स्तोकं भवति । एतद् व्याख्यानं व्यवहारनयमधिकृत्यावसातव्यं । निश्चयनयमधिकृत्य श्लथत्वस्याऽप्युत्सूत्रत्वात् । यतोऽसौ चतुर्भेदो घनतरं श्लथः, स्तोकमुत्सूत्रप्ररूपको भवति । ततोऽस्य संसर्गोऽपि चारित्रिणो बहुतर-इलथत्वहेतुरल्पं उत्सूत्रप्ररूपणाहेतुः स्यात् । स्वच्छन्दबाह्यौ, स्वच्छन्दो नाम यथाच्छन्दो, बाह्यस्सङघबाह्यस्तौ स्वाच्छन्द्यस्य सङघबाह्यत्वस्य च क्रमशः कारणं । प्राय इत्यत्रापि सम्बध्यते । यतो यथाच्छन्दसङ्घबाह्यौ गाढक्रियावपि त्यक्तचारित्रिगुरुकुलवा. सत्वेन षड्जीवनिकाय-रक्षणायामकुशलत्वात् किञ्चित् शिथिलौ स्यातां । ततो गाढक्रिययोरेतयोस्संसर्गश्चारित्रिणो घनतरं यथाच्छन्दत्वसङघबाह्यत्वहेतुः स्यात्, अल्पं च शिथिलताहेतुर्भवति ॥१८॥
संविग्नपाक्षिकाच्छेषः, शिथिलः स्वं परानपि । यथाच्छन्दो घनं बाह्योऽतिघनं पातयेत् भवे ॥१९॥
For Private And Personal Use Only