________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
. व्याख्या-पूर्वोक्तचतुर्भेदशिथिलस्य मध्यात् कोऽपि शिथिलः कदाचित् शुद्धप्ररूपकत्वादिगुणालङकृतस्सन् संविग्नपाक्षिकः स्यात्। स च मोक्षपथपथिकत्वेन श्लाघ्यस्ततस्संविज्ञपाक्षिकात् शेषोव्यतिरिक्तः शिथिल: स्व-आत्मानं, परानपि-आत्मव्यतिरिक्तानपि, भवे-संमारे, पातयेत् । यथाच्छन्दो घनोत्सूत्रयुवतत्वात् घनं संसारे स्वं परानपि पातयेत् । बाह्यः - सङधबाह्यस्सङघावज्ञाकारकत्वादतिघनं-यथाच्छन्दादत्यर्थं स्वं परानपि संसारे पातयेत ॥१९।।
यः पूर्वं पञ्चधा बहिस्थ उक्तस्तं प्रदर्शयन्नाहएते स्वकर्मणा बाह्याः, पञ्चोत्सूत्रप्ररूपकाः । अभूवन दुःषमाकालान्, भ्रमोद्भामितचेतसः।।२०।। स्पष्टः । उक्तंच-' हुं नन्देन्द्रियरुद्रकालजनितः पक्षोऽस्ति राकाङिकतो,
वेदाभ्रारुणवर्ष औष्ट्रिकभवो विश्वार्ककालेऽञ्चलः । षट्यर्केषु च सार्धपौणिम इति व्योमेन्द्रियार्के पुनः,
काले त्रिस्तुतिको मतद्वयमयः पञ्चापि पक्षा अमी।२१॥ व्याख्या-स्पष्टम् । नवरं-मतद्वयमयः - अग्रपूरीयकतग्रपूरीयकमताभ्यां द्विप्रकारोऽपि त्रिस्तुतिक एक एवात्र गण्यते।।२१।।
अथ यथाच्छन्दनिनवयोरुत्सूत्रप्ररूपक इति नाम्नि समानेऽपि पृथक् भवनकारणभूतमुत्सूत्रस्यान्तरं दर्शयन्नेते पञ्चापि न यथाच्छन्दाः, किन्तु निह नवा इति दर्शJश्चाह
अनवस्थितकोत्सूत्र, यथाच्छन्दत्वमेषु न ।
तववस्थितकोत्सूत्रं, निह नवत्वमुपस्थितम् ॥२२।। व्याख्या-एषु पञ्चसु कुपाक्षिकेषु यथाच्छन्दत्वं न विद्यते। किं विशिष्टं ? अनवस्थितकोत्सूत्र-नवनवीनोत्सूत्रं । यथाच्छन्दो
For Private And Personal Use Only