________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो विश्रामः
ह्यबस्थितमेवोत्सूत्रं न जल्पति, किन्तु स्वच्छन्दवृत्त्या एकमुत्सूत्रं परियज्य अपगपरोत्सूत्राणि जल्पति । तथा यदुत्सूत्रं प्ररूपयति, तदपि कदाचित् सूत्रतया प्ररूपयति, तथा सामान्य जनेन ताडितः सन् स्वकीयोत्सूत्रं मुञ्चति वा न वा, पुनस्सङघताडितस्सन् स्वकीयोत्सूत्रं मुञ्चत्येव । ततोऽसौ सङघप्रत्यनीको न स्यात् । एवंविधस्प यथाच्छन्दलक्षणम्यादर्शनेन यथाच्छन्दत्वाभावादेषु निह नवत्वमुपस्थितं-बलादुपढौकितं । किविशिष्टं ?, अवस्थितकोत्सूत्रनिह नवेन यदुत्सूत्रं प्ररूपणाय प्राक् प्रारब्धं, तदुत्सूत्रं स्वाभिनिवेशं यावत् प्ररूपयति, मरणान्तेऽपि न परित्यजतीत्येतस्योत्सूत्रमवस्थितमेव भवति । सङ्घताडितस्सन् सङघं न मन्यते, अतोऽसौ सङघप्रत्यनीको भवति । एवंविधस्य निह नवलक्षणस्य दर्शनेन (अज्ञानात् क्रमसंसर्गभावे तीर्थत्यजनादर्शनेन) एते पञ्चापि निह नवा घटन्ते ॥२२॥
प्रकारान्तरेणामीषां निह नवत्वमाहत्यक्ततीर्था ह्यमी वाभि-निवेशानिह नवास्ततः ।
अज्ञानात्क्रमससर्ग-भावे तीर्थं त्यजन्ति न ॥२३॥ ध्याख्या- अमी पञ्चापि कुपक्षा अभिनिवेशात् त्यक्ततीर्था अभूवन् । ततः - तस्मात् कारणानिह नवाः शास्त्रेऽस्मिन् प्रोक्ताः । अभिनिवेशं विना हि अविच्छिन्नपरम्परायातं तीर्थं त्यक्तुं न शक्यते, किन्तु अभिनिवेशेनैव तीर्थं त्यज्यते, तीर्थत्यागाच्च गोष्ठामाहिलादिवत् एतेऽपि आभिनिवेशिकमिथ्यात्वोदये वर्तमानत्वात् निह नवा घटन्ते एव ।
ननु अज्ञानादपि तीर्थत्याजिनो घटन्ते, तत्कथमेते आभिनिवेशिकाः प्रोक्ता: ? । अत्रोच्यते-अज्ञानं द्विविधमेकमभिनिवेशसहितमपरमभिनिवेशरहितं । तत्राद्यमसाध्यव्याधिकल्पं, न कथमपि
For Private And Personal Use Only