________________
Shri Mahavir Jain Aradhana Kendra
गुरुतत्त्वप्रदीपे
विरमति । अतोऽत्राभिनिवेशरूपमेव तद्विवक्षितं । अथ कथमपि तद्विरतं तदा जानन्नपि स्वाभिनिवेशाङ्गीकृतं कुमार्गं न त्यजति । द्वितीयमज्ञानं तु साध्यव्याधिकल्पं । न च तच्चन्द्रप्रभसूर्यादीनां प्रथमकुपाक्षिकाणां दृश्यते । यतस्तदज्ञानवान् क्रमागतं संसर्गलग्नं वा कुमार्ग सन्मार्ग वाङ्गीकरोति । प्रतिबोधितस्सन् प्रायश्चित्तं गृह, पाति, कुमार्गं परित्यज्य सन्मार्गमेवाङ्गीकुरुते । ततो यदि तदज्ञानममीषां भवति, तस्मादज्ञानात्तीर्थस्य क्रमभावे संसर्गभावे चैते तीर्थं न त्यजन्ति । किमुक्तं भवति यद्यमीषां अज्ञानिनां चेतसि क्रमागतं प्रमाणमित्यभिप्रायोऽभूत् तदाऽमीषां क्रमागतं तीर्थमेवाभवत् । अथ यदि कथमप्येते एतावन्तः केनाभिप्रायेणेदृशं कुर्वन्त्यत एतदपि प्रमाणमित्यभिप्रायस्संसर्गशादमीषां चेतस्यभूत्, तत्तदा संसर्गोप्यमीषां तीर्थस्यैवाऽऽसीत् इत्युभयथापि तीर्थत्यजनममीषां नाभविष्यत् । यत्पुनस्तीर्थ त्य जनमभूत्ततस्तीर्थ त्यजनादभिनिवेशोऽ भिनिवेशान्निह नवत्वं घटतेऽमीषामिति । अत्र पूर्णिमीयकखरतरी तीर्थमध्यात् निःसृतत्वेन त्यक्ततोर्थावुक्तौ । शेषं मतत्रयं पूर्णिमीयका दिपक्षमध्यान्निःसृतत्वेन त्यक्तपूर्णिमीयकादिपक्षमपि तस्यैवापेक्षया पूर्णिमीयका दिपक्षस्य तीर्थ विवक्षितं ॥ २३ ॥
܀
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
7
१२
यदि मदीय पक्षाsssर्ष कानामभिनिवेशान्निह नवत्वं ततोऽ मिनिवेशरहितस्य क्रमागतं संसर्गविलग्नं च पूर्णिमादिकं कुर्वाणस्य तत्त्वातत्त्वान्तरानभिज्ञस्य मम को मार्गः ? इति कुपाक्षिकाऽधुनातनशिष्यायां शिष्यस्य मार्ग दर्शयन् मार्गाऽनङ्गीकारे दोषं च दर्शयन्नाह -
अज्ञेऽनभिनिवेशे तु सधाज्ञा शिष्यधीगुणैः । लोकोत्तराऽऽभिग्रहिक - मिथ्यात्वाद्यन्यथा त्वयि ||२४||
For Private And Personal Use Only