SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमो विश्राम: व्याख्या-हे शिष्य ! हे अधुनातनकुपाक्षिक ? त्वयि अज्ञे चतुर्दश्यादिविचाराचतुरे अनभिनिवेशेऽभिनिवेशरहिते सङघाज्ञा अस्तु-भवतु । कैः कृ चा ? धीगुणर्बुद्धिगुणैः शुश्रूषाधैः, यदाह- शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः॥१॥ (अमिधानचिन्ता०) अयमत्रभाव: - यद्यागमप्रमाणेन चतुर्दश्यादितत्त्वं पूणिमाद्यतत्त्वं च त्वं विवेक्तुं न क्षमः, तथा यदि अभिनिवेशरहितोऽसि, ततो माध्यस्थ्यमास्थायाऽष्टभिर्धीगुणस्सङघपरम्परायातं सङघमुपलक्ष्य पूर्णिमाद्यतत्त्वं परित्यज्य सङघाज्ञामङ्गीकुरु । दुरुपलक्षलक्ष्याद् गम्भीरार्थादागमात् सङघाज्ञायास्सुखावबोधत्वात् । सङधाज्ञाया अपि चतुर्दश्यादिरूपत्वेन पूर्णिमाद्यतत्त्वत्यजनस्यानुमतत्वात् / किमुक्तं भवति-आगमान्तर्यत् तिष्ठतु तत् प्रमाणं, पुनरहं तं न जाने, अतः परम्परायातसङघावलग्नेन मया भवितव्यमिति चित्तपरिणामेन चतुर्दश्यादितत्त्वमङ्गीकुरु । यथावस्थिततत्त्वस्य सङक्षेपादवबोधस्तवेत्थं भवति । अन्यथा चतुर्दश्यादिरूपसङघाज्ञाङ्गीकाराभावे पूर्णिमाद्यङ्गीकारे लोकोत्तराऽऽभिग्रहिकमिथ्यात्वं, आदिशद्वात् लोकोत्तरसांशयिकमिथ्यात्वमपि त्वयि भवति, मिथ्यादृष्टिचेतसः प्रवाहपथलीनत्वेन सन्देहाविनाभावात् । मिथ्यात्वं हि पञ्चधा। यदाह-आभिग्गहियमणभिग्गहियं तह अभिनिवेसियं चेव । संसइयमणाभोग, मिच्छत्तं पंचहा एयं ॥१।। (पञ्चसंग्रह.) न च तवाऽनाभोगिक मिथ्यात्वं । अनाभोगो हि द्विविध:- सर्वतो देशतश्च । तत्र सर्वस्मादनाभोगाद्यन्मिथ्यात्वं तदेकेन्द्रियादीनां विवक्षितम् । यद्देशतस्तस्य क्षणिकशङकावदतिचाररूपत्वेन सम्यग्दृष्टेरपि भवनात् । For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy