________________
Shri Mahavir Jain Aradhana Kendra
गुरुतत्त्वप्रदीपे
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यदाह- सम्मद्दिट्टी जीवो, उवइट्टं पवयणं तु सद्दहइ ।
सद्दहइ असब्भाव, अणभोगा गुरुनिओगा वा ॥ १ ॥ ( उत्तरा. निर्यु. ) तव तु चतुर्दश्यादिपूर्णिमाद्योराक्षेपस्य कर्णकोटरे समागच्छमानत्वादाभोगवत्त्वेन लोकोत्तराऽऽभिग्रहिकमिथ्यात्वादिति ॥ २४ ॥
वादिनोऽपि मिथो यूयं, कुपक्षास्सङघ मागताः । सर्वेप्यन्यायिनस्स्यात, तस्करा इव भूपतिम् ॥ २५ ॥
१४
व्याख्या - हे कुपक्षा ! हा ! यूयं तस्करा इव सङ्घं भूपतिमिव आगतास्सर्वेऽपि अन्यायिनः स्यात । किंविशिष्टा ? मिथ:- परस्परं, वादिनोऽपि । इह जगति उभयोर्वादिनोर्मध्यादेकेन वादिना न्यायिता अपरेणाऽन्यायिना भाव्यमिति शाश्वते भावे सत्यपि यूयमस्माकं मध्यात् को न्यायी कोयायीतिनिर्णयं याचनाय सङ्घभूपति समायातास्सन्तस्सर्वेऽप्यन्यायवन्त एव भवथ । सङ्घस्यागमा धनं छित्त्वा सदस्यैव मुखेन न्यायान्यायनिर्णयमिच्छतां भवतां युक्तमेवान्यायिभवनमित्यर्थः ॥ २५ ॥
मिथो वादाद् गता यूयं स्वयमेवाप्रमाणतां कण्टकः कण्टकेनैव, पट्टभक्तः क्रमस्त्विह ॥ २६ ॥ व्याख्या-स्पष्टः । नवरं - क्रमस्सङघक्रमोऽस्तु युष्माकं, यथा पट्टभक्तत्वं भवेत् ॥ २६॥
सूत्रोक्ता निहनवास्सप्त, तदाधिक्यकथा कथं ? I जमालिनाशमित्यादि - सूत्रतो लभ्यते श्रुते ॥२७॥
व्याख्या - ननु सूत्रोक्ताः - सिद्धान्तोक्ता निहनवास्सप्त प्रसिद्धाः 'सत्तेए नि नवा खलु' इत्यादिवचनात् । ततस्तेषां नि, नवानां आधिक्यकथा-समधिकवार्ता, कथं शास्त्रेऽस्मिन् श्रूयते ? |
For Private And Personal Use Only