________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो विश्रामः
अत्रैते पञ्च निह नवा: कथिताः । इत्थं द्वादश निह नवा भवन्त्यतः सिद्धान्तबाधा प्रकटैव स्यात् । उच्यते-जमालिनाशमित्यादिसूत्रतः
आयरियपरंपरएण आगयं जो उ छेअवुद्धीए । कोवेइ छेयवाई जमालिनासं स नासिहिति ॥१॥
(सूत्र० नियुक्तिः) सुगमा । नवरं-महावीरात्प्रभृति परम्परा, तदनु सङघेन यत्कृतं, तदपि तीर्थकर कृतमिव मन्तव्यं तस्य परम्परा वाऽऽचार्यपरम्परा इति सूत्रतः। श्रुते-सिद्धान्ते निह नवानामधिकवार्ता लभ्यते-प्र.प्यते । योऽप्याचार्य परम्परागतमतिकामति, सोऽपि निह नवः, सिद्धान्तोक्तसप्तभ्योऽधिको ज्ञातव्य इत्यर्थः । तत एते पञ्चाप्याचार्यपरम्परागतातिक्रमणात् सञ्जातनिह नवतया सिद्धान्तोक्ता निहनवा ज्ञातव्याः। तथा जमालिना प्रत्यक्षस्तीर्थकरो न मतः। तत आचार्यपरम्परासमागतघातकानां सूत्रे जमालिदृष्टान्तदानेन पञ्चाप्यते प्रत्यक्षतीर्थकरामननपातकयुतास्तत्सदृशाःसिद्धाः॥२७॥
जमालिस्तीर्थकृदूषी, यूयं तीर्थस्य दूषकाः । सामान्यतः पुनस्सूत्रे, यदुक्ता व्यक्तितो न च ॥२८॥ प्रसिद्ध निह नवत्वं तद्भवतां भुवि भावि न । न भावि बोटिकत्वं वा, व्यक्तिश्छिन्नश्रुतेऽस्ति वा ॥२९॥ भावि वा स्वल्पकालत्वमष्टोच्छ्वासनिषेधिवत् ।
ये सप्त स्वल्पकालाः स्युर्दृष्टान्तायापि ते श्रुते ॥३०॥ व्याख्या-हे कुपक्षाः ! जमालिस्तीर्थकृद्षी-प्रत्यक्षतीर्थकरदूषकः, यूयं तीर्थस्य-प्रत्यक्षसङघस्य दूषकाः । एवमनेनापि लक्षणेन यूयं जमालिसदृशा इत्यर्थः । पुनर्यत् सूत्रे-सिद्धान्ते, सामान्यतः 'आयरियपरंपरएणागयं' इत्यादिगाथया सामान्यवृत्त्या
For Private And Personal Use Only