________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
यूयमुक्ताः , न च व्यक्तित:-प्रत्येक पृथक् नामकथनलक्षणं व्यक्तिमाश्रित्य, यूयं सिद्धान्ते यन्नोवताः । ततो भवता प्रसिद्धनिह नवत्वं भुवि-पृथिव्यां न भावि । सूत्रोक्तव्यक्तनिह नवत्वे हि धनतरलोकानां प्रतीतेनिह नवस्य प्रसिद्धत्वं स्यात् । सत्येवं रतोकजनानां संसारे निमज्जनं भवति । पुनर्घनत रजनसंसारनिमज्जनस्वभावात् यौष्माकीणनिह नवस्य प्रसिद्धत्वाभवनभक्तिव्यतया सूत्रे व्यक्ति भवदित्यर्थः । वा-अथवा, भवतां बोटिकत्वं न भावि, यथा दिगम्बरः 'तो बोडियाण दिट्टी रहवीरपुरि समुप्पन्ना' (आव० नियु०) इत्यक्षराणि दृष्टवा सिद्धान्तस्सकलोऽपि न मतस्तथा यूयमपि निजनिह नवत्वं व्यक्तं सिद्धान्ते दृष्ट्वा सकलमपि सिद्धान्तं नामस्यत । ततो युष्माकं बोटिकत्वाभवन भवितव्यतया सूत्रे व्यक्तं निह नवत्वं नोक्तमित्यर्थः। वा-अथवा, छिन्नसूत्रे-त्रुटितसिद्धान्ते, व्यक्तिाष्माकीणनिह नवत्वस्य प्रकटताऽभूत्। अतो वर्तमानसिद्धान्ते व्यक्तिर्न दृश्यत इत्यर्थः । वा-अथवा, भवतां पञ्चानामपि स्वल्पकालत्वं भावि, अष्टोच्छ्वासनिषेधिवत् । यथा 'अरिहंतचेईयाण' मित्यादिकायोत्सर्गेऽष्टोच्छ्वास निषेधक मतं ललितविस्तरोवतं पूर्वमभवत्, पुनरधुनातनकालेऽग्रतोऽनागतं, तथा भवतामपि अग्रतो घनतरकालं भवितव्यं न घटते । अतः सिद्धान्ते यूयं व्यक्ता नोक्ता इत्यर्थः । ये सप्त जमाल्यादिनिह नवास्सूत्रे-सिद्धान्ते स्युर्व्यक्तास्तिष्ठन्ति । किंविशिष्टाः ? स्वल्पकाला अधुनातनकालं यावत्, तत्संतानागमनाभावात् । ते सप्त निह नवाः दृष्टान्तायापिदृष्टान्तार्थमपि सूत्रे उक्ताः ।।२८।२९।।३०॥
राका भ्रष्टौष्ट्रिकः किञ्चिभ्रष्टो द्वौ च कवोष्णको । फलशाकादिको चातः, स्वल्पकालस्य सम्भवः ।।३१॥
For Private And Personal Use Only