________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो विश्रामः
व्याख्या-राका-पूर्णिमा, भ्रष्टा पूर्णिमीयकात् सार्द्धपूर्णिमीयकाश्च सर्वेऽपि शिथिलीभूता इत्यर्थः । औष्ट्रिकः किञ्चिभ्रष्ट:पूर्णिमीयकानामपेक्षया खरतरः स्तोकं शिथिल: स्थित इत्यर्थः । द्वौ आञ्चलीयकत्रिस्तुतिको कवोष्णको-कवोष्णं-ईषदुष्णं, कं-पानीयं ययोस्तौ उष्णापनकजलादानात् (?) न केवलं कवोष्णको, ‘फलशाकादिको च' । फलशाकं आदिशब्दादन्यदपि क्रियाहीनत्वं तपोवच्चारित्रात् ययोस्तौ । मतान्तरं हि क्रियाबलेन वर्द्धते, ततः क्रियायाः शैथिल्यं भवतां । अतः - अस्मात् कारणात् स्वल्पकालस्य स्तोककालस्य, सम्भवो-घटना, युष्माकं दत्ताभिधानस्य राज्ञः काले पञ्चानामपि व्यवच्छेदो मन्यते इति ॥३१॥ .
कुपक्षाणां स्वशक्त्यापि, व्रतं चारित्रमेव न ।
नाज्ञानकष्टमेवातः, क्रियेत्यभिहितं बुधः ॥३२॥ व्याख्या-कुपक्षाणां पञ्चानां स्वशक्त्यापि-आलस्यपरिहारेणाऽपि, व्रत-अनुष्ठानं चारित्रमेव नाज्ञानकष्टमिति न । अथवा अज्ञानकष्टमेव न, चारित्रमित्यपि न । कस्यचिदनुष्ठानस्य चारित्रानुयायित्वात् कस्यचिदनुष्ठानस्याज्ञानकष्टानुयायित्वात् । ततः किमित्याह-बुधैविद्वद्भिः क्रिया इति नाम अमीषामनुष्ठानस्य अभिहितं-दत्तम् ॥३२॥
पार्श्वस्थादेव॒ढा द्रव्य-लिडिगनो गृहिलिङिगनः । ।
कुलिङिगनश्च ज्ञातृत्वात्,तीव्रमिथ्यात्विनस्त्वमी ॥३३॥ व्याख्या-तावत् पार्श्वस्थादिः पञ्चविधोऽपि द्रव्यलिङ्गी भण्यते तथा गृहिलिङ्गिनः कुलिङ्गिनश्च तीव्रमिथ्यात्वी च । कस्मात् ? ज्ञातृत्वात्-जिनशासनावबोधात्, तु-पुनरमी पञ्च
For Private And Personal Use Only