________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
१८
कुपाक्षिकाः पावस्थादिभ्यो दृढाः – अत्यर्थ, द्रव्यलिङ्गिनस्तीवमिथ्यात्विनश्च । अत्र पार्श्वस्थादिकुपाक्षिकयोरिदमीदृशं मिथ्यात्वमागमोक्तम् ।
यदाह-'सावज्जजोगपरिवज्जणाइ सव्वुत्तमो जइधम्मो' (उप० माला) इत्यादिगाथात्रयं । कस्मात् पार्श्वस्थादिभ्यः कुपाक्षिकाणां अत्यर्थं पातकित्वं ? ज्ञातृत्वात्-पावस्थादिभ्योऽत्यर्थं जैनागमाम्यसनेनात्यर्थमवबोधात् ।। उक्तं च-'अन्यलिङ्गकृतं पापं, जिनलिङ्गेन शुद्धयति ।
जिनलिङ्गकृतं पापं, वज्रलेपेन लिप्यते ॥१॥ ॥३३॥ जैनागमस्याश्रद्धानं, मुख्यमिथ्यात्वमुच्यते । श्रद्धानं गौणमिथ्यात्वं, मिथ्यादृष्टचोर्द्वयोरपि ॥३४॥ व्याख्या-स्पष्ट: । नवरं-द्वयोलौकिकलोकोत्तरयोः । न चात्रेदमाशङकनीयं यद् द्रव्यलिङ्गिमिथ्यादृष्टीनामल्पजैनागमपदाश्रद्धानेन मिथ्यात्वदेशो घनतरशेष (शेषा जैना) जैनागमश्रद्धानात् घनतरं शेष सम्यक्त्वं । यतः स्वल्पजैनागमश्रद्धानं लौकिकमिथ्यादृष्टीनामपि भवेत् । ततो यथा मिथ्यात्वपरिणामानाममीषां तन्मिथ्यात्वं तथोत्सूत्रपरिणामानां लोकोत्तरमिथ्यादृष्टीनामपि घनतरशेषजैनागमश्रद्धानं मिथ्यात्वं, सर्वजैनागमश्रद्धानस्यैव सम्यक्त्वभवनात् । यदाह-पयमक्खरंपि इक्कंपि, जो न रोएइ सुत्तनिद्दिनें ।
सेसं रोयंतो वि हु, मिच्छद्दिट्ठी मुणेयव्वो । १। ॥३४॥ स्वकल्पितमतस्थायि, जिनोक्तागमसम्मतेः । श्रद्धानमपि मिथ्यात्वं, गौणं तु देशदूषणात् ॥३५॥
For Private And Personal Use Only