________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो विश्रामः
व्याख्या-स्पष्ट: । नवरं-अत्र लौकिकलोकोत्तरमिथ्यादृष्टीनां जैनागमस्याश्रद्धानं मुख्यमिथ्यात्वं, श्रद्धानं च रुद्रावतारादिपोणिमीयकादि वीतरागप्ररूपितजैनागममननेन देशविसंवादात् गौणमिथ्यात्वं विवक्षितम् ।।३५।।
मुख्यमिथ्यात्वमेष्वल्प-मपि तालपुटं विषम् ।
असाध्यत्वात्तदुत्तीर्योदधि गोष्पदमज्जनम् ॥३६॥ व्याख्या-यद्यपि एषु-पञ्चसु कुपक्षेषु, मुख्यमिथ्यात्वं अल्पं, पुनस्तथापि तत्तालपुटविषं परिज्ञेयं । कस्मात् ? असाध्यत्वात्निकाचितत्वात् 'तदुत्तीर्ये'-त्यादि । घनतरं जिनशासनं यथावस्थितं विनिश्चित्य अत्पेषु स्थानेषु स्वाभिनिवेशादेरुत्सूत्रममुञ्चताममीषां समुद्रमुत्तीर्य गोपदिकायां निमग्ना इति लोकाभाणकोऽपि सत्योऽभवत् ॥३६॥
अनल्पं मुख्यमिथ्यात्वं, गृहिलिङिगकुलिङिगनाम् । यद्यपि स्यात् पुनस्साध्यं, वत्सनागविषं यथा ॥३७॥ स्पष्टः। मिथ्यात्वबन्धमाश्रित्य, लौकिकेभ्योऽधमा अमी ।
उत्तमाः पुनराश्रित्य, ग्रन्थिभेद क्रियाफले ॥३८॥ व्याख्या-अमी लोकोत्तरमिथ्यादृष्टयो मिथ्यात्वबन्धमाश्रित्य लौकिकमिथ्यादृष्टिभ्योऽधमाः। एतेभ्योऽमी तीव्रमिथ्यात्वं बध्नन्ति। अत एवाऽधमा इत्यर्थः ।
उक्तं च-'उस्सुत्तमायरंतो, बंघइ कम्मं सुचिक्कणं जीवो' । (उप०माला) ग्रन्थिभेदमाश्रित्य उत्तमत्वमाह-समानसङख्यलौकिक मिथ्यादृष्टीनामपेक्षया लोकोत्तरमिथ्यादृष्टीनां जिनवचनादेर्गाढतराभ्यासेनानुमोदनया बहूनां ग्रन्थिभेदस्य सम्भवात् । अत्र याऽपि
For Private And Personal Use Only