________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
साऽपि समानसङख्या निजस्वेच्छया विधीयते । तत्रका प्रदर्श्यतेएकतो विंशतिलौकिका एकतो विंशतिर्लोकोत्तराश्च क्रियन्ते। ततो लौकिकविंशतेमध्ये स्तोका लोकोत्तरविंशतेमध्ये पुनर्घनतरा भिन्नग्रन्थयः प्राप्यन्ते इत्यर्थः । ग्रन्थिभेदाऽनन्तरं कथं मिथ्यात्वमित्याह-ग्रन्थिभेदं कृत्वा कर्षकस्य श्रीमहावीरदर्शनान्मिथ्यात्वपतनवत् द्रव्यलिङ्गिनामपि उत्सूत्रपरिणामात् पुनरपि मिथ्यात्वपतनं । अथ क्रियाफलमाश्रित्योत्तमत्वमाह-ब्रह्मलोकादूर्ध्वमपि प्रैवेयकं यावत् यतिलिङ्गमिथ्यादृष्टीनामुत्पादस्योक्तत्वात् ।।
अथ प्रसङ्गाऽऽयातं गृहिलिङिगनां स्वरूपमाह-तथा द्रव्यलिङिगभक्ता गृहिलिङिगनोऽपि मतान्तरमिदमिति ज्ञातकर्तारो लौकिकगृहिलिङिगकुलिङिगनोरपेक्षया तीव्रमिथ्यात्विनो मन्तव्याः। द्रव्यलिङिगचारित्रिणस्तु गहिलिङिगकुलिङिगनोरपेक्षया लोकोतरभद्र कतयाऽल्पमिथ्यात्विनो ज्ञातव्याः ॥३८॥
क्रियानुरागात् पञ्चते, श्रिता मध्यमबुद्धिभिः ।
गताऽऽगमानुगामित्वाननुगामित्ववीक्षणः ॥३९॥ व्याख्या-एते पञ्च कुपक्षा: क्रियानुरागान्मध्यमबुद्धिभिर्लोकः श्रिताः - आदृताः, किंविशिष्टै: ? गते'त्यादि । गतं-यातं, आगमविषये नुगामित्वाननुगामित्वयोर्वीक्षणं येषां तः । इदमनुष्ठानमागमानुयायि इदमनुष्ठानमागमाननुयायि चेत्येवंरूपविमर्शरहितैरित्यर्थः ॥३९॥ अस्यैवार्थस्य समर्थनाय प्रभुश्रीहरिभद्रसूरीणामुक्तं दर्शयन्नाहबालः पश्यति लिङगं, मध्यमबुद्धिविचारयति वृत्तम् । आगमतत्त्वं तु बुधः, परीक्षते सर्वयत्नेन ॥४०॥ (षोडशकं) स्पष्टः ।
For Private And Personal Use Only