Book Title: Dipalikakalp
Author(s): Jinsundarsuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
दीपालिका
कल्पः
॥ न दृश्याम निजार्थेन । लोभी
त्सराः॥ १३४॥ हुंडायामवसर्पिण्या-मेतस्थामभवन् दश । तीर्थकरोपसर्गादी-न्याश्चर्याणीह तद्यथा ॥ १३५ ॥ उवसग्ग-गब्भहरणं-इत्थीतित्थं-अभाविया परिसा । कण्हस्स अवरकंका अवयरणं चंद्दसूराणं ॥१३६॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अ अट्ठसयसिद्धा । अस्संजयाण पूआ दसविहा गंतेण कालेण ॥१३७॥ कषायबहुला लोका दुष्षमायामतः परम् । भाविनस्त्यक्तमर्यादा नष्टधर्मधियो जडाः ॥१३८॥ कालेन हीयमानेन कुतीर्थमंतिमोहिताः । परोपकारसत्यादि-वर्जिता भाविनो जनाः ॥ १३९ ॥ पुराणि ग्रामरूपाणि ग्रामाः प्रेतवनोपमाः । यमदण्डसमा भूपा महेभ्या भृत्यसन्निभाः॥१४०॥ न दृश्या भाविनो देवा न जातिसरणं नृणाम् । जना विगतमर्यादाः क्षुद्रसत्त्वाकुलाचलाः ॥१४१५ परविघ्नेन संतुष्टाः पापारंभे चतुर्भुजाः । निजार्थेन जनोन्येषां | नखमध्ये प्रवेशकः ॥ १४२ ॥ प्रमादी पुण्यकृत्येषु परतृप्तिषु तत्परः । वंचनाचतुरस्तुच्छः प्रचण्डो दीर्घरोषणः ॥ १४३ ॥ लोभी मिथ्याभिमानी च राजद्धौं पौदमोचकः । पाखण्डिनो भविष्यन्ति बहवो विप्रतारकाः॥१४४ ॥ धूर्ताः पापकरा मूर्ताः स्फुरिष्यन्ति | पदे पदे । त्रपात्यक्ताऽपमर्यादा वेश्यावत्कुलयोषितः ॥ १४५॥ भूपा भृत्याञ्जनान् भृत्या लोकास्तान् द्वितयानपि । ध्रोक्ष्यन्तीह |महीपीठे मात्स्यधर्मः प्रवर्त्यति ॥ १४६ ॥ चौराश्चौर्य विधानेन कर मीश्वराः पुनः । जनं दरिद्रयिष्यन्ति बढयोऽपि प्रदीपनैः। ॥१४७॥ वधो धेन्वादिजन्तूनां पातनं देवसझनां । मर्त्यमुण्डकरो दण्डो भाव्येवं दुःखितो जनः ॥ १४८॥ दुर्भिक्षैडमरैदौःस्थ्यैरसौम्यैर्जनमारिभिः । भाविनी मेदिनी शून्या देशभंगादिविप्लवैः॥ १४९ ॥ प्रेतलोकसमाः श्रेण्यो लश्चालुब्धानियोगिनः । अवि
-मति-मत । २-क्षुद्रसत्ववडे करी आकुलचित्तना धणी । ३-राजद्वारसेवी। ४-मच्छगलागलन्याय-बृहन्मच्छो-लघोगिलति, लघु-लघुतरस्य, लघुतरो-लघुतमस्येत्यादि । ५-कुटुंबीलोकनी श्रेणी ।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56