Book Title: Dipalikakalp
Author(s): Jinsundarsuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 24
________________ दीपालिका कल्प ॥४॥ वर्षेश्चतुरशीत्यभ्य-धिकैः पंचशतैर्गतैः ५८४ । व्युच्छेत्स्यन्ते गते वजे दशपूर्व्यर्द्धकीलिके ॥ १०३॥ वर्षेष्षोडशभिर्युक्तैः षट्शतैः ६१६ पुष्यमित्रकः । सार्द्धाणि नवपूर्वाणि यास्यन्ति विलयं पुनः ॥१०४ ॥ षइभिर्वर्षशतैविंश-त्यधिकै ६२० मम मोक्षतः । ग्राममध्ये विधास्यन्ति वसतिं चाय॑सूरयः॥१०५॥ नवोत्तरैः शतैः पइभि-र्वत्सराणां ६०९ दिगम्बराः। पाखण्डिनो भविप्यन्ति रथवीरपुरे पुरे॥१०६॥ दिनतो मम मोक्षस्य गते वर्षशतत्रये ३०० । उज्जयिन्यां महापुर्या भावी संप्रतिभूपतिः॥१०७॥ श्रीमदाय॑सुहस्त्याव-सूरीणामुपदेशतः । जातिस्मरणमासाद्य जैनधर्म विधास्यति ॥१०८ ॥ दोर्दण्डमण्डलाक्रान्त-त्रिखण्डक्षोणिमण्डलः । ज्ञाता-दाता-नयी-धर्मी-विनयी-सपराक्रमी ॥ १०९॥ मुक्ताहारैरिव श्वेत-विहारैरर्हतां वरैः । महीं महीयसीमेतामखण्डां मण्डयिष्यति ॥११० ॥ युग्मम् । स नृपोऽनार्यदेशेषु लोकोपकारहेतवे । सम्यक्त्वोपासकाचार-शिक्षादक्षैर्विचक्षणैः ॥१११॥ जिनागमविचारह-रुपदेशविशारदैः । प्रहितैः सेवकैर्लोकान् श्रावकान् कारयिष्यति ॥११२ ॥ युग्मम् ॥ प्रतिबोधविधानार्थ नृणां तत्र पवित्रधीः । गीतार्थानां विहारं स गुरुभिः कारयिष्यति ॥ ११३ ॥ एवं जिनोदितं धर्म सर्वदेशेषु शक्तितः । प्रवर्त्य दृढधर्माऽथ 5 क्रमेण त्रिदिवं गमी ॥ ११४ ॥ मोक्षतो मम सप्तत्या युते वर्षचतुश्शते ४७० । व्यतीते विक्रमादित्य उञ्जयिन्यां भविष्यति ॥ ११५॥ श्रीसिद्धसेनसूरीणा-मुपदेशं निशम्य सः । सर्वज्ञशासने भक्त्या प्राप्तसम्यक्त्वनिश्चयः ॥११६ ॥ सत्व-सिद्धाग्निवेतालप्रमुखानेकदेवतः। विद्यासिद्धो-मंत्रसिद्धः-सिद्धसौवर्णपूरुषः ॥११७ ॥ धैर्यादि-गुणविख्यातः स्थाने स्थाने नरामरैः । परीक्षाकषपापाण-निघृष्टसत्त्वकांचनः ॥ ११८ ॥ ससन्मानैः श्रियां दान-रनृणामखिलामिलाम् । कृत्वा संवत्सरं स्वस्थ वर्तयिष्यति भूतले ॥११९॥ चतुर्भिः कलापकम् ॥ गीर्वाणगणत्याध्वा घजीभूतगुणवजः । पालयिता नयोपेतः प्रास्तपापरजाः प्रजाः ॥ १२० ॥ पंचत्रिंशद्युते १-स्तुत्य ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56