Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 383
________________ त्यजनापमानतः॥२८ तमव करेण कौतुकी जगहेतु स्थालमहो ! पलाय शक्तितः॥ २५ ॥ परमप्यखिलं क्षणात्ततः समकालं कनकासनादिकम् । सदनादुदपप्तदम्बरे पतगवातवदस्य पश्यतः ॥ २६ ॥ अथ कौतुकशोकवानयं जिनपूजादि विधाय धीनिधिः । तपनीयमयादिभाजनैः प्रगुणैः प्रारभते स्म भोजनम् ॥ २७ ॥ यदमत्रममुच्यतामुना चरितार्थी कृतमश्नता यदा । द्रुतमेव तदा तदुद्ययौ कुपितं तु त्यजनापमानतः ॥ २८ ॥ अयमाचमनं समाचरश्चपलं स्थालमपि प्रलोकयन् । द्रुतमेव करेण कौतुकी जगृहे दस्युमिव प्रणश्वरम् ॥ २९ ॥ कृतसार्थतयेव तैः समं तदपि स्थालमहो! पलायत । विनिवारयितुं हि पारयेद्वजमानं नियमाणकं च कः॥ ३० ॥ शकलं पुनरस्य तत्करे धृतदाक्षिण्यमिव व्यवास्थित । इति वीक्ष्य विलक्षतांगतो हृदि दध्यौ सुधनः सुधीरिदम् ॥ ३१ ॥ अधुना मम पुण्यशून्यता कथमासीदतिसीमदुःखदा । कमला सकलाऽपि पैतृकी यदहंपूर्विकया मुमोच माम् ॥ ३२ ॥ विषमः खलु | किं बहूच्यते परिपाको मम पूर्वकर्मणाम् । सुगृहीतमपि स्वपाणिना यदिदं स्थालमपि प्रणेशिवत् ॥ ३३ ॥ यदि वा धनयौवनादिके विदितैव क्षणदृष्टनष्टता । सुकृतं पुनरात्मना ध्रुवं तनुते च ध्रुवमेव वैभवम् ॥ ३४॥ विदधे विधिवद् ध्रुवं| मया नहि धर्मः समशर्मदः पुरा । लब्ध्वाऽपि विभूतिम तामधुनाऽभूवमभूतिभाग् यतः॥ ३५ ॥ यतिधर्ममतः श्रये|ऽधुना विपदो यस्तिमिरावलीरिव । सवितेव निहन्ति संपदः पुनरुल्लासयतेऽजिनीरिव ॥ ३६॥ इति रङ्गदभङ्गभावनोभववैराग्यतरङ्गिताशयः। विनयन्धरसूरिसन्निधौ सुधनः संयममाददे मुदा ॥३७॥ अममोऽपि कुतूहलादयं शकलं स्थालभवं सहाग्रहीत् । त्रपया तु कदाऽपि नापरं कमपि ज्ञापयति स्म संयतम् ॥ ३८ ॥ अथ तस्य गृहीतवास्तवग्रहणासेवन|शिक्षताजुषः। परमागमभावितात्मनो गुरुरेकत्वविहारमादिशत् ॥ ३९ ॥ विहरन् धरणी क्रमादयं मथुरामागमदुत्तरा

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408