Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 387
________________ सुमित्रकान्तया । धनमित्रधनी निधिं निजं न पुनस्तेन ददे स लोभतः ॥ ८३ ॥ क्रमतो मृतिमाप्य सोऽप्यभूत् सुधनो | नाम तवाङ्गजापतिः । कमला सहसा जहौ च तं शुभदानानुशयोत्थकर्मणा ॥ ८४ ॥ अपलप्य गृहे न्यवेशि यद्धनमित्रेण निधिः पुरा तव । अधुना भवदीयमन्दिरे सुधनश्रीः स्वयमागमत्ततः ॥ ८५ ॥ शुद्धानुमोदनगुरूकृतदानपुण्यादत्यद्भुतां मदन संपदमासद स्त्वम् । दानानुतापजनिता शुभकर्मतस्तु तत्याज रङ्कमिव तं सुधनं धनौघः ॥ ८६ ॥ श्रुत्वेति सौवचरितं मुदितः प्रपद्य सुश्राद्धधर्ममगमन्मदनः स्वसद्म । चैत्यादिसप्तशुभपात्रनिवेशनेन शुद्धाशयश्च कमलां सफलां चकार ॥ ८७ ॥ अथ सुधनमुनीन्द्रात् प्राप्य चारित्रधर्मं मदनमुनिरबालः पालयामास सम्यक् । विशदचरणयोगाद्वावथ स्वर्गमाप्तौ शिवगतिमचिरेण प्राप्स्यतस्तौ विदेहे ॥ ८८ ॥ पश्चात्तापः ॥ ३ ॥ निर्विम्बं तथा पात्रे दद्यात् हृद्यार्थसिद्धये । विलम्बेन ददानस्य भावः प्रायो हि हीयते ॥ १ ॥ हीयमानः पुनर्भावः पुण्यं खण्डयति स्फुटम् । तदुत्कर्षापकर्षो हि तदेकायत्तजीवितौ ॥ २ ॥ खण्ड्यमाने पुनः पुण्ये दाता तदनुयायिनीः । कृतपुण्य इवामोति खण्डिताः प्रेत्य संपदः ॥ ३ ॥ तथाहि अस्ति स्वस्तिरमावासगृहं राजगृहं पुरम् । तत्रामात्रगुणश्रेणिः श्रेणिको नाम भूपतिः ॥ ४ ॥ तस्याऽभय इति ख्यातो मुख्यो मन्त्रिष्वजायत । धनावहाभिधः श्रेष्ठी तत्र चाभूद्विभूतिमान् ॥ ५ ॥ भद्रा पुण्यविनिद्रात्मा तस्याजायत वल्लभा । कृतपुण्य इति ख्यातस्तनयोऽजनि चानयोः ॥ ६ ॥ नवार्यमेव तेजस्वी दर्शनीयो नवेन्दुवत् । शुशुभेऽद्भुत सौभाग्यश्रीणां विश्रामधाम सः ॥ ७ ॥ वर्धमानः क्रमेणायं प्रियङ्करणदर्शनः । सकलाः कलयामास कलाः प्रतिपदिन्दुवत् ॥ ८ ॥ कुली

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408