Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 398
________________ द्वादशः प्रकाशः। दानप्रदीपे IM कापि नृपाः क्वापि खलास्तदीयमुपदुद्रुवुर्द्रव्यम् ॥ २५॥ अथ दीनमना अमनागविराममितस्ततः स बभ्राम । पश्यन्नाशाः। शून्या भूतपरिस्यूत इव पुर्याम् ॥ २६ ॥ अन्येारयं दध्यौ वपुर्बलं विद्यते ममाद्यापि । किश्चित्किश्चिद्भाण्डं भाण्डागारे-* ॥१९५॥त ऽस्त्यखण्डं च ॥ २७ ॥ तद्गत्वा देशान्तरमुपार्जयाम्यर्थमन्यथाऽपि च मे । स्वजनाद्यपमानयुजः श्रेयः स्थानान्तराश्रयणम् ॥ २८ ॥ अत्र हि सर्वत्र पुरे कार्पण्यस्फुरितदुरपवादोऽहम् । क्षीणधनत्वेन पुनर्विशिष्य हास्यास्पदं जज्ञे ॥ २९॥ ध्यात्वेत्यन्तश्चित्तं वित्तं दशलक्षसंख्यमादाय । आरुह्य पोतमब्धि लोभाविष्टः प्रविष्टोऽयम् ॥ ३० ॥ वर्मनि दूरमतीते जलदैराकाशमानशे सहसा । उल्लसितं शितकुन्तैरिव दिशि दिशि विद्युदुद्योतैः ॥ ३१ ॥ सह बद्धस्पर्धाविव जगर्जतुर्जलदसागरौ युगपत् । पोतः पोतस्थानां हृदयैः साकं चकम्पे च॥३२॥ हा दैव ! रक्ष रक्षेतिभाषिषु श्रेष्ठिमुख्यलोकेषु । सद्यो|ऽभिद्यत पोतः साकं सत्कर्मणा तेषाम् ॥ ३३ ॥ श्रेष्ठी ततः स जलधि फलकेनोत्तीर्य तीरमायातःशीतलवाताश्वसितो हृदि दध्यौ खेदमेदस्वी ॥ ३४ ॥ हाहा मया गतधिया क्लेशसहस्रैरुपार्जितो विभवः । कथमेष यत्नलक्षैः सुरक्षितोऽपि क्षणाक्षीणः॥ ३५॥ दत्तं यन्न सुपात्रे स्वयं न भुक्तं न चापि परकार्ये । व्यापारितं स्वचित्तं खाट्कुरुते शल्यमिव तन्म॥३६॥ नैतावतैव तृप्तो दैवश्चक्रे कुटुम्बविरहमपि । इति खेदमेदुरमनाः क्षणं स बभ्राम तीरवने ॥ ३७॥ तावद्ददर्श तत्र स्वर्णाम्बुजसंनिविष्टमनगारम् । सुरविरचितम हिमानं तात्कालिककेवलज्ञानम् ॥ ३८॥ अथ हृष्टमनाः श्रेष्ठी श्रमणप्रष्ठं प्रणम्य विनिविष्टः। पुण्योपदेशमाकर्ण्य पृच्छति स्वच्छतमचेताः॥ ३९ ॥ भगवन्नाजन्माहं कथं नु कार्पण्यभाजनं जज्ञे । विभवो मे भूयानपि कथं च निःशेषतः क्षीणः॥४०॥ ॥१९५॥

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408