Book Title: Bhaktamarstava Churni Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ अनुसन्धान ५२ सम्पूर्ण० ॥ हे त्रिजगदीश्वर ! त्रयाणां जगतां समाहारस्त्रिजगत् । त्रिजगत ईश्वरस्त्रिजगदीश्वरस्तस्य सम्बोधनं हे त्रिजगदीश्वर !। ये तव गुणास्त्रिभुवनं लक्यन्ति । गुणाः किंविशिष्टाः?, सम्पूर्ण(मण्डलशशाङ्क-कलाकलापशुभ्राः) । सम्पूर्ण मण्डलं यस्य सम्पूर्णमण्डलः । शशे(शो)ऽङ्के यस्य स शशाङ्कः । सम्पूर्णमण्डलश्चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कः । कलानां कलापः कलाकलापः । सम्पू(र्णमण्डल)शशाङ्कस्य कलाकलापः सम्पूर्णमण्डलशशाङ्ककलाकलापः । [सम्पूर्णमण्डलशशाङ्ककलाकलाप]वत् शुभ्राः सम्पूर्ण(मण्डलशशाङ्ककलाकलाप) शुभ्राः । ये गुणा एकं नाथं संश्रिताः, कः पुरुषः यथेष्टं सञ्चरतस्तान् गुणान् निवारयति इत्यन्वयः । इष्टस्याऽनतिक्रमेण यथेष्टम् ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि र्नीतं मनागपि मनो न विकारमार्गम् ।। कल्पान्तकालमरुता चलिताचलेन किं मन्दरादिशिखरं चलितं कदाचित् ? ॥१५॥ चित्रं कि० ॥ हे नाथ ! यदि ते- तव मनः मनागपि त्रिदशाङ्गनाभिर्विकारमार्ग न नीतं इत्यन्वयः । त्रिदशानां अङ्गनाः त्रिदशाङ्गनाः, ताभिः त्रि(दशाङ्गना)भिः । विकारस्य मार्गो विकारमार्गस्तम् । अत्र किं चित्रं अस्ति?। न किमपीत्यर्थः । दृष्टान्तमाह- कदाचित् कल्पान्तकालमरुता किं मन्दराद्रिशिखरं चलितम् ? । कल्पान्तकालमरुता कथम्भूतेन ?, चलिताचलेन । चलिता अचला येन स च(लिताच)लस्तेन । कल्पस्य अन्तलपत (अन्तः कल्पान्तः) । कल्पान्तश्चासौ कालश्च क(ल्पान्तका)लः । कल्पान्तकालस्य मरुत् काल्पान्तकालमरु)त् । तेन काल्पान्तकालमरु)ता । मन्दरश्चासौ अद्रिश्च मन्दराद्रिः । मन्दराद्रेः शिखरं मन्दरादिशिखरम् ॥१५।। निर्धूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ निधूम० ॥ हे नाथ ! त्वं अपरं दीपः असि । यतः-किंविशिष्टः ? निर्धूमवर्तिः । धूमश्च वर्तिश्च धूमवर्ती, निर्गते धूमवर्ती यस्मात् असौPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22