Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 18
________________ अनुसन्धान ५२ क(ल्पान्तकालपवनोद्धतव)ह्निः । कल्पा(न्तकालपवना)द्धतवर्नेः कल्पः-तुल्यः कल्पा(न्तकालपवनोद्धतवह्निक) ल्पस्तम् । पुनः-ज्वलितं-प्रदीप्तम् । पुनःउज्ज्वलं-रक्तम् । पुनः-उत्स्फुलिङ्गं-उल्लसद्वह्निकणम् । उत्-ऊध्र्वं स्फुलिङ्गा यस्य स उत्स्फुलिङ्गस्तम् । दावानलं किं कुर्वन्तं ?, आपतन्तं-आगच्छन्तम् । कथं ? सन्मुखम् । इव उत्प्रेक्षते-विश्वं जिघत्सुं-ग्रसितुम् ॥३६।। रक्तक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्क-स्त्वन्नामनागदमनी हदि यस्य पुंसः ॥३७॥ रक्ते० ॥ हे नाथ ! यस्य पुंसः हृदि त्वन्नामनागदमनी वर्तते इत्यन्वयः । त्वन्नामैव नागदमनी त्वन्नामनागदमनी । स पुमान् निरस्तशङ्कः क्रमयुगेन फणिनमाक्रामति । निरस्ता शङ्का येन सः । क्रमयोर्युगं क्रमयुगं तेन । फणा विद्यते यस्य स फणी तम् । किम्भूतं फणिनं ?, रक्तेक्षणम् । रक्ते ईक्षणे-लोचने यस्य सः । पुनः-समदकोकिलकण्ठनीलम् । कोकिलस्य कण्ठः को(किलकण्ठः) । सह मदेन वर्तते यः स समदः । समदश्चासौ कोकिलकण्ठश्च स(मदकोकिल) कण्ठः । समदकोकिलकण्ठवन्नीलः स(मदकोकिलकण्ठ) नीलस्तम् । पुनः-क्रोधोद्धतम् । क्रोधेन उद्धतः-उत्कटः क्रो(धोद्धत)स्तम् । पुनः-उत्फणम् । [उत्-ऊर्ध्वं फणा] यस्य स उत्फणस्तम् । फणिनं किं कुर्वन्तं ?, आपतन्तम् । सम्मुखं धावन्तम् ॥३७॥ वल्गत्तुरङ्गगजगजितभीमनाद-माजौ बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाऽऽशु भिदामुपैति ॥३८॥ वल्ग० ॥ हे नाथ ! त्वत्कीर्तनात् आजौ बलवतामपि भूपतीनां बलं आशु भिदामुपैतीत्यन्वयः । तव कीर्तनं त्वत्कीर्तनं तस्मात् । बलं विद्यते येषां[ते] बलवन्तस्तेषाम् । भुवः पतयो भूपतयस्तेषाम् । बलं किम्भूतं ?, वल्ग त्तुरङ्ग (गजगर्जितभीम )नादम् । तुरङ्गाश्च गजाश्च तुरङ्गगजाः । वल्गन्तश्च ते तुरङ्गजाश्च व(लगत्तुरङ्ग)गजाः । वल्गत्तुरङ्गगजानां गजितानि व(लगत्तुरङ्गगजगजि) तानि । भीमाश्च ते नादाश्च भीमनादाः । वल्गत्तुरङ्गगजगजितभीमनादा यत्र तत् व(लगत्तुरङ्गगजगजितभीम)नादम् । दृष्टान्तमाह-इव-यथा तमोऽन्धकारं भिदामुपैतिभेदं गच्छतीत्यर्थः । तमः किम्भूतम् ?, उद्य(दिवाकरमयूखशिखाप)विद्धम् । उद्गच्छद्रविकराग्रप्रेरितम् । दिवा करोतीति दिवाकरः । उद्यंश्चासौ दिवाकरश्च

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22