Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 19
________________ सप्टेम्बर २०१० १९ उ(द्यद्दिवा)करः । उद्यद्दिवाकरस्य मयूखाः उ(द्यद्दिवाकरमयू)खाः । उद्यद्दिवाकरमयूखाणां शिखा उ(द्यद्दिवाकरमयूखशि)खाः । उद्य(दिवाकरमयूख) शिखाभिरपविद्धं उ(द्यद्दिवाकरमयूखशिखाप)विद्धम् ॥३८॥ कुन्ताग्रभिन्नगजशोणितवारिवाह-वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षास्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥ कुन्ता० ॥ हे नाथ ! त्वत्पादपङ्कजवनाश्रयिणो जना युद्धे जयं लभन्ते इत्यन्वयः । तव पादौ त्वत्पादौ । पङ्के जायन्ते स्म इति पङ्कजानि । पङ्कजानां वनं पङ्कजवनम्)। त्वत्पादावेव पङ्कजवनं त्व(त्पादपङ्कज)वनम् । त्वात्पादपङ्कजवनं आश्रयन्ते इत्येवंशीलास्त्वत्पादपङ्कजवनाश्रयिणः । जनाः किम्भूताः ?, विजितदुर्जयजेयपक्षाः-निर्जितोत्कटवैरिगणाः । जेतुं योग्या जेयाः । जेयानां पक्षो जेयपक्षः । दुःखेन जयो यस्य स दुर्जयः । दुर्जयश्चासौ जेयपक्षश्च दुर्जयजेयपक्षः । विजितो दुर्जयजेयपक्षो यैस्ते वि(जितदुर्जयजेयप)क्षाः । युद्धे किम्भूते ?, कुन्ताग्र( भिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोध) भीमे । भल्लाङ्गः पाटितानां वारणानां रुधिरं तदेव जलप्रवाहस्तस्मिन् वेगावतारात् त्वरितप्रवेशात् तरणे आतुरैः सुभटैः भीष्मं तस्मिन् । कुन्तानामग्राणि कुन्ताग्राणि तैः कुन्ताग्रैभिन्नाः कुन्ताग्रभिन्नाः । कुन्ताग्रभिन्नाश्च ते गजाश्च कुरन्ताग्रभिन्न)गजाः । कुन्ताग्रभिन्नगजानां शोणितं कुरन्ताग्रभिन्नगजशोणि)तम् । वारिणो वाहः वारिवाहः । कुन्ताग्रभिन्नगजशोणितमेव वारिवाहः कु(न्ताग्रभिन्नगजशोणितवारि) वाहः । वेगेन अवतारो वेगावतारः । कुन्ता(ग्रभिन्नगजशोणितवारि) वाहे वेगावतारः कु(न्ताग्रभिन्नगजशोणितवारिवाहवेगाव)तारः । तरणे आतुरास्तरणातुराः । कुन्ता (ग्रभिन्नगजशोणितवारिवाह)वेगावतारात् तरणातुराः कु(न्ताग्रभिन्नगजशोणितवारि वाहवेगावतारतरणा)तुराः । कुन्ता(ग्रभिन्नगजशोणितवारिवाह)वेगावतारतरणातुराश्च ते योधाश्च कु(न्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुर)योधाः । कुन्ता (ग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुर)योधैर्भीमं कु(न्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोध) भीमं, तस्मिन् ॥३९॥ अम्भोनिधौ क्षुभितभीषणनक्रचक्र-पाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गतरङ्गशिखरस्थितयानपात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ अम्भो० ॥ हे नाथ ! अम्भोनिधौ सांयात्रिका जना भवतः स्मरणात्

Loading...

Page Navigation
1 ... 17 18 19 20 21 22